________________
विभाग-४, लघुवृत्तिः
श्रीजिनवल्लभसूरिविरचितः श्रीहर्षराजोपाध्यायविहितलघुवृत्तियुतः
श्रीसङ्घपट्टकः वन्दे शान्तिजिनं शान्तिकरं कर्मोत्करोज्झितम् । महोदयेन्दिरोदारं, विघ्नसङ्घातघातकम् ॥१॥ भित्त्वा दुष्कर्मदुर्गं शमदमबलतः साधिकाद्वादशाब्दैलेंभे तीर्थङ्करश्रीः सदतिशयवती लीलया येन नृभ्यः । भक्तेभ्यश्च प्रदत्ता स सुरमणिरहो !! इष्टदस्त्वं हि सार्वस्तेनालं मां कुरुष्व स्वविमलकमलालङ्कृतं वर्द्धमानः ॥२॥ जिनवल्लभसूरीन्द्रैः, कृतः श्रीसङ्घपट्टकः, ।
तद् व्याख्यामल्पधीः कुर्वे, बृहट्टीकाऽनुसारतः ॥३॥ व्याख्या-अथ 'सङ्घप क]' इति कः शब्दार्थः ?, उच्यते-'सङ्घस्य'ज्ञानादिगुणसमुदायरूपस्य-साध्वादेश्चतुर्विधस्य ‘पट्टको' व्यवस्थापत्रं, यथा राजादयः स्वनियोगिभ्यो व्यवस्थापत्रं प्रयच्छन्ति 'अनया व्यवस्थया युष्माभिर्व्यवहर्त्तव्य'-मिति, एवमिहापि साक्षाद्विपक्षदोषदर्शनद्वारेण स्वपक्षसुसङ्घस्य व्यवस्था वक्ष्यमाणा दर्श्यत इति सङ्घपट्टकः । तत्रादिवृत्तम्
___वह्निज्वालावलीढं कुपथमथनधीर्मातुरस्तोकलोकः ॥१॥ व्याख्या-'स्तुमः' प्रणुमः, अस्मत् अप्रयुज्यमानेऽप्युत्तमपुरुषप्रयोगकथनाद्वयमिति कर्तृपदं स्वयमिह ज्ञेयं, कं ? देवं, दीव्यते-स्तूयते शक्रादिभिरिति देवः स चात्र प्रकरणात्अविशिष्टदेवतात्वेन स्तवार्हत्वाज्जिनः, सोऽपीह कमठतपोदुष्टतास्पष्टनलक्षणासाधारणविशेष[ ण ]योगात्पार्श्वनाथः । तं देवं स्तुमः, यो 'जगादेव' प्रतिपादयामासेव । इव शब्दो[ ऽन्त्र उत्प्रेक्षाद्योतकः । किं ? इति तदेवाहविधुरमित्यादि । 'प्राज्ञैः' प्रेक्षावद्भिः 'कार्य' विधेयं 'कुपथस्खलनं' सर्वसामर्थ्येन पूर्वापराऽविसंवादिशास्त्रविरुद्धमतनिराकरणं । किं कृत्वा ? 'प्रपद्य' अङ्गीकृत्य, किं ? 'विधुरमपि-व्यसनमपि । अपिः सम्भावने, एतत्सम्भावयति सति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org