________________
विभाग-४, लघुवृत्तिः
१८५ सामर्थ्य स्वापायशङ्कया कुपथस्खलनाऽवधीरणं त्वनन्तजीवसंसारकारणत्वेन महतेऽनयेति । कस्य विधुरं ?' 'स्वस्य' आत्मनः कथं ? सद्यस्तत्क्षणात् । किलेत्याप्तवादे । कस्मादेवं जगादेव ? इत्यत आह-कारुण्यामृताब्धिः- 'कथमयं जनो मया कुमार्गपथादुद्धरणीयः' इति कृपापीयूषसागरो भगवान् । नहि लोककृपां विना कश्चित्स्वकष्टमङ्गीकरोति । किं कुर्वाण एवं जगादेव ? इत्यत आह-'स्पष्टयन्' प्रकटीकुर्वन्, किं ? कमठमुनितपः-कमठाभिधानलौकिकतपस्विपञ्चाग्निरूपकष्ठानुष्ठाता ‘दुष्टं' प्राणिवधलाभपूजाख्यातिकामनादिदोषयुक्तं । कथं दुष्टं ? उच्चैरतिशयेन । किं कृत्वा ? 'सन्दर्य' दर्शयित्वा, कं ? 'नागं' पञ्चाग्नितपोनिमित्तज्वलिताग्निकुण्डान्तर्वति काष्ठकोटरमध्यगं भुजङ्गं । किं विशिष्टं ? 'वह्निज्वालावलीढं' निरन्तरं प्रज्वलद्वह्निज्वालाव्याप्तं अर्द्धदग्धमिति यावत् । क्व ? 'अने' पुरतः, कस्याः ? 'मातुः' स्वजनन्याः, न केवलं मातुः, तथा समस्तलोकस्य । कस्मात्सकलजनमध्ये भगवांस्तत्तपस्तिरश्चकार ? यतः 'कुपथमथनधी:' असन्मार्गोच्छेददक्षः । एवं ज्ञानबलज्ञातकमठविधास्यमानजलधरधारासम्पातादिस्वापायाभ्युपगमेनापि कमठतपसो दुष्टत्वं स्पष्टयताऽर्थादेतत्प्रत्यपादि यत् मद्वद् भवद्भिरपि कुमार्गस्खलनं स्वकष्टाङ्गीकारेणापि कार्यमिति वृत्तार्थः ॥१॥
तदेवमिष्टदेवतास्तवमभिधाय-इदानीं सङ्घव्यवस्थोपदेशतत्त्वं कथनीयं, तच्च योग्यपुरुषस्य प्रतिपाद्यमानं साफल्यमासादयेत्, तेनोपदेशरहस्यभणनयोग्यं श्रोतारं निरूपयितुमाह
. कल्याणाभिनिवेशवानिति गुणग्राहीति मिथ्यापथ ॥२॥ ___ व्याख्या-'उच्यसे' उपदिश्यसे, त्वमिति युष्मदः श्रोतृनिर्देशः, मयेति कर्तुरात्मनिर्देशः । ततश्च भोः श्रोतः ! मया त्वं सङ्घव्यवस्था प्रतिपाद्यसे इत्यर्थः । कस्माद् ? इत्याहकल्याणाभिनिवेशवानिति । इति शब्दा अत्र सर्वेऽपि हेत्वर्थाः । कल्याण:-शुभोऽभिनिवेशःआग्रहः, सद्ग्रह इत्यर्थः, तद्वान्, सद्ग्राहिणो हि सदुपदेशरत्नश्रवणे परमानन्दः समुल्लसति १। तथा गुणग्राहीति-अल्पीयसोऽपि गुणस्य ग्रहणप्रवणः, दोषैकग्राहिणो हि अविद्यमानेऽपि दोषे तद्ग्राहकत्वमेव स्यात् २ । तथा मिथ्यापथप्रत्यर्थीति, मिथ्यापथो वक्ष्यमाणो यथाछन्दप्ररूपितोत्सूत्रमार्गः तस्य 'प्रत्यर्थी' विरोधी, उत्सूत्रमार्ग श्रोतुमप्यनिच्छुः, उत्सूत्रपथाभिलाषुकस्य यथार्थसिद्धान्तोपदेशस्त्रासाय स्यात् ३ । तथा विनीत इति गुर्वादिष्वभ्युत्थानादिकरणलालसः, विनीतायैव गुरवः सिद्धान्ततत्त्वं कथयन्ति ४ । तथा अशठ इतिऋजुस्वभावः, गुर्वादिषु जीविका (नहिः ति) निरपेक्षप्रवृत्तिरित्यर्थः, शठो हि न विद्यायोग्यः ५ । तथा औचित्यकारीति च-लोकागमाविरोधेन गुर्वादिषु यथानुरूपं विनयादिप्रवृत्तिचित्यं तत्करणशीलः, औचित्यहीनस्य शेषगुणाः सन्तोऽपि काशकुसुमसङ्काशाः ६ । तथा दाक्षिण्यीति, दाक्षिण्यमनुकूलता-जनचित्तानुवर्तित्वं, तद्वान् , निर्दाक्षिण्यो हि बन्धूनामप्येद्वेगकृत् ७ । तथा दमिति-जितेन्द्रियः, अजितेन्द्रियो हि गुरुसेवायामपि मन्दायते ८ । तथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org