Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 135
________________ श्री सङ्घपट्टकः यदाह ॥ बाह्येन्द्रियाणि संयम्य, य आस्ते मनसा स्मरन् ॥ इन्द्रियार्थान् विमूढात्मा, मिथ्याचारः स उच्यते ॥ ततश्च तद्वतां तद्युक्तानां दाम्भिकानां ह्यापातमधुरोपि वचनसन्दर्भः प्रलम्भनगर्भत्वेन परिणामे भूयोऽनर्थसंभारकारणत्वाद्विषायते ॥ तदुक्तम् ॥ पीयुषधारामिव दाम्भिकाः प्राग् प्रलम्भनीयां गिरमुद्गिरन्ति ॥ पुनर्विपाकेऽखिलदोषधात्री सैवातिशेते बत कालकूटम् ॥ अतस्तद्भाषितानि सुविहितैः सुश्रावकैश्च न श्रोतव्यानीति तात्पर्य मिति वृत्तार्थः ॥२७॥ अधुना वितथादिरुपधर्मदेशिनामपि तेषां कुपथस्य तथाविधमुग्धजनोपादेयतां सविषादं प्रतिपादयन्नाह ॥ ॥ मूलकाच्यम् ॥ १०८ यत् किञ्चिद्वितथं यदप्यनुचितं यल्लोकलोकोत्तरो, त्तीर्णं यद्भवहेतुरेव भविनां यच्छ्रास्त्रबाधाकरम् । तत्तद्धर्म इति ब्रुवन्ति कुधियो मूढास्तदर्हन्मत, भ्रान्त्या लान्ति च हा दुरन्तदशमाश्चर्यस्य विस्फूर्जितम् ॥२८॥ तत्तदितिवीप्सायां सर्वसङ्ग्रहमाह ॥ धर्मसाधनमनुष्ठानमिह धर्मस्ततश्चधर्म इति सुकृतमिदमित्येवंरुपतया बुवन्ति वदन्ति कुधीयो दुर्मेधसो नाम जैनाः ॥ यत्किं इत्याह ॥ यत्किंचिदिति सामान्यतो निर्दिष्टं विशेषतोऽनिर्दिष्टनामकं वितथमलीकं श्रेणिकराजरजोहरणवंदनादि न ह्येतदागमे क्वचिल्लिखितमस्ति येन सत्यं स्यात् परं लिङ्गिनः स्ववन्द्यता ॥ पादनायै तदपि धर्म इति भाषन्ते ॥ यदाह ॥ श्रीश्रेणिकक्षितिपतिः किल सारमेयलाङ्गूलमूलनिहितं यतिवद्ववन्दे ॥ भक्त्या रजोहरणमित्यनृतं वदन्ति ही लिङ्गिनो वृषतया कुंधीयः प्रलब्धुम् ॥ तथा यदपि अपि समुच्चये यच्चानुचितमयोग्यम् ॥ पित्राद्युद्देशेन यात्राकरणादि धर्मनिमित्तं हि कृत्यजातं जिनमन्दिरे कर्तुमुचितं नान्यत् ॥ पित्राद्युद्देशेन तु यात्रादि तत्र विधीयमानं गुणबहुमानविकलकेवलस्नेहनिबन्धनत्वान्नधर्मः ॥ परं तदपि लिङ्गिनो धर्मोयमित्यभिधाय स्वोपयोगाय विधापयन्ति ॥ यदाह ॥ यात्रा: प्रतीत्य पितरौ भवताऽत्र चैत्ये यद्वात्र मासि विहिता धनिनामुना तत् ॥ कार्यास्त्वयापि च तथेति कथं गृहस्थे धर्मोऽयमित्यनुचितं रचयन्ति धूर्त्ताः ॥ तथा यल्लोको जैनमार्गबहिर्भूतः शिष्टजनः लोकोत्तरं जिनप्रवचनं ताभ्यामुत्तीर्णं बाह्यं सूतकगृहभिक्षाग्रहणादि एतद्धि लोकलोकोत्तरयो विरुद्धत्वान्न धर्मस्ते तु गार्ह्यादिहेतुनैतदपि धर्म इत्यभिदधति ॥ यदाह || भिक्षा सूतकमन्दिरे भगवतां पूजा मलिन्या स्त्रिया ॥ हीनानां परमेष्ठिसंस्तवविधेर्यच्छिक्षणंदीक्षणं ॥ जैनेन्द्रप्रतिमाविधापनमहो तल्लोकलोकोत्तर ॥ व्यावृत्तेरथ तुमप्य धिषणाः श्रेयस्तया चक्षते ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262