Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 203
________________ १७६ श्री सङ्घपट्टकः अन्यनाशनकृतेपरनाशाय बद्धोद्यमानां स्वयम् नष्टाः परानपि नाशयन्तीत्यर्थः । पुनः कथंभूतानां ? 'महामोहाद्'घनप्रचुरतराविवेकात् 'अहम्मानिनाम्'-अहमेव, नान्यः इति मानिनां । पुनः कथम्भूतानां ? सिद्धान्तद्विषतां-जिनशास्त्रवैरिणाम् । पुनः कथम्भूतानां ? दुर्भेद्यस्फुरदुग्रकुग्रहतमःस्तोमास्तधीचक्षुषां-दुर्भेद्याः दुरुच्छेद्याः स्फुरन्तो-मनसि जाग्रद्रूपाः ये उग्रकुग्रहा:-जिनगृहनिवासादयस्त एव तमःस्तोमा:-अन्धकारपटलानि, तैरस्तं प्रापितं धीरेव चक्षुर्येषां तेषाम् ॥२७॥ यत्किञ्चिद् वितथं यदप्यनुचितं यल्लोक-लोकोत्तरो ॥२८॥ व्याख्या-'यत् किञ्चित् ' यत् कुधियः-कुबुद्धयः तत्तद्धर्म इति ब्रुवन्ति-अयमेव धर्म इति कथयन्ति तत् दुरन्तदशमाश्चर्यस्य विस्फूर्जितं-विजृम्भितं, तत्, किं यत् किञ्चित् वितथम्अलीकं यदिति सामान्यतो निर्दिष्ट-विशेषतोऽनिर्दिष्टनामा, यदप्यनुचितम्-अयोग्यं यल्लोकलोकोत्तरोत्तीर्णजिनमार्गाद् बहिर्भूतं जिनप्रवचनबाह्यं जिनमार्गादतीतमित्यर्थः, यद्भविनांदेहिनां भवहेतुरेव येन संसारबन्धो भवतीत्यर्थः, यतः शास्त्रबाधाकरं-सिद्धान्तविरुद्धं न केवलं धर्म इति कथयन्ति । अर्हन्मतभ्रान्त्या लान्ति च, कोऽर्थः ? जिनमार्गोऽयमिति मिथ्याज्ञानेन गृह्णन्ति च, कथम्भूतास्ते ? मूढाः ॥२८॥ साम्प्रतं मुग्धजनान् प्रति स्वमतं मोक्षपथतयादिशत, सत्पथगामिनश्च धार्मिकान् स्ववचनाननुरोधित्वेनाज्ञतया अवजानानस्य कस्यचिद्यथाछन्दाचार्यग्रामण्योऽप्रस्तुतप्रशंसया स्वरूपमाह कष्टं नष्टदिशां नृणां यददृशां जात्यन्धवैदेशिकः ॥२९॥ व्याख्या-'कष्टं' दुःखमेतन्नश्चेतसि वर्त्तते , यत्किमित्याह-यदिति वाक्योपक्षेपे, यन्नृणामदृशां जात्यन्धवैदेशिकः कान्तारेऽभीप्सितपुराध्वानं प्रदिशतीति सम्बन्धः । तत्र 'नृणां' पुंसां नष्टदृशाम्-अलोचनत्वात् कान्तारपातेन दिङ्मूढत्वाच्च प्रभ्रष्टप्राचीप्रतीच्यादिककुप्विभागपरिच्छेदानाम्, अदृशांकाचकामलादिनां दृग्विकलानां, न तु जन्मान्धानां, जन्मान्धो जन्माभिव्याप्त्या लोचनरहितः । ननु सोऽपि तद्देशजात इतरेभ्यः श्रवणादिना विज्ञाय कथञ्चिदिष्टपुरपथं देक्ष्यतीति तत्रोक्तं "वैदेशिक" इति, विदेशे-योजनशतव्यवहिते देशान्तरे जातो वद्धितश्चेति वैदेशिकः । स हि तद्देशस्वरूपमात्रस्याप्यनभिज्ञत्वात्कथं प्रकृतमार्ग जानीयादपि । ततः कर्मधारयः । कान्तारे जनसञ्चारशून्ये दुर्गवर्त्मनि 'प्रदिशति' प्रतिपादयति अभीप्सितपुराध्वानं-जिगमिषितनगरमार्ग, किलेति वार्तायाम्, उत्कन्धरः-उद्ग्रीवः कन्धरामुन्नमय्य भुजदण्डमुत्क्षिप्य कथयतीतिकष्टमेतत् । तुः पुनरर्थे, इदं वक्ष्यमाणं पुनः कष्टतरं-पूर्वस्मादपि कष्टान्महाकष्टं, यत् किमित्याह-'सोऽपि' प्रागुक्तो मार्गदेष्टा 'सुदृशो' निर्मलनयनानत एव 'सन्मार्गगान्' इष्टनगरसुगमपथप्रस्थितान् तद्विदः सम्यक्सन्मार्गज्ञान् यत् हसति, सावज्ञमिति Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262