Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 201
________________ १७४ सर्वत्रास्थगिताश्रवाः स्वविषयव्यासक्तसर्वेन्द्रियाः ॥२२॥ व्याख्या - कष्टमिति खेदेन उद्धतधियः - 'नास्त्यस्मत् समो जगति संप्रति कश्चने ति दर्पाध्मातबुद्धयः तुष्यन्ति - मोदन्ते, पुष्यन्ति - वर्द्धन्ते च किं कृत्वा ? सन्मुनिमूर्द्धसु स्थित्वामुनिमस्तकेषु स्थितिं विधाय, किं विशिष्टाः ? अन्त्याश्चर्यराजाश्रिताः - दशमाश्चर्यनृपानुगताः, यथा नीचा अपि केचन राजादेरवष्टम्भेन महतामपि मूर्द्धानमारुह्य पुष्यन्ति । एवमेतेपि दशमाश्चर्यराजाश्रिता महामुनीन् परिभूय पुष्यन्तीत्यर्थः । श्री सङ्घपट्टकः पुनः किं विशिष्टाः ? सर्वाकृत्यकृतोऽपि - कोऽर्थः ? लोकलोकोत्तरविरुद्धाब्रह्मसेवनपुष्पफलाद्युपभोगाद्यसदाचारकारिणोऽपि सर्वमकृत्यं कुर्वन्तीत्यर्थः । सर्वत्रास्थगिताश्रवाः लोकसमक्षम् अनिरुद्धपञ्चाश्रवाः । पुनः किम्भूताः ? स्वविषयव्यासक्तसर्वेन्द्रियाः, स्वविषयेषु - स्पर्शादिषु व्यासक्तानि - विशेषणलग्नानि इन्द्रियाणि त्वगादीनि येषां ते । पुनः किम्भूताः ? वल्गद्गौरवचण्डदण्डतुरगाः, वल्गन्तः - यदृच्छया प्रसरन्तः गौरवैः चण्डा:उत्कटाः, दण्डाः-अकुशलमनोवाक्काया एव तुरगा येषां ते । पुनः किम्भूताः ? पुष्यत् कषायोरगाः सुपुष्टक्रोधसर्पाः । एतावता पञ्चाश्रवविरमण -पञ्चेन्द्रियनिग्रहैं-दण्डत्रयविरतिकषायचतुष्टयजय-लक्षणसप्तदशविधसंयमविहीना अपि ते सत्साधूनतिक्रामन्ति इति श्लोकार्थः ॥ इदानीं दुष्टयतिभ्यो गृहस्था एव श्रेष्ठा इति दर्शयितुमाह सर्वारम्भपरिग्रहस्य गृहिणोऽप्येकाशनाद्येकदा ॥२३॥ व्याख्या- 'सर्वारम्भ०' गृहिणोऽपि हृदि तीव्रानुतापो भवेत् । निष्ठुरपश्चात्तापो जायते । किं विशिष्टस्य गृहिणः ? न रक्षतः न पालयतः, किम् ? एकाशनादि-एकभक्तादि, किं कृत्वा ? प्रत्याख्याय-नियम्य । क्व ? एकदा अष्टम्यादितिथिषु । यदि कश्चिद् गृहस्थः अष्टम्यादितिथिषु एकभक्तादेर्नियमं गृह्णाति पश्चात् तं खण्डयति तस्य चेतसि महान् पश्चात्तापो भवतीत्यर्थः । किं विशिष्टस्य गृहिणः ? सर्वारम्भस्य परिग्रहस्य- सकलपापव्यापारतत्परस्य सदा-सर्वदा, ये पुनः त्रिधामनोवाक्कायारूपेण त्रिविधं कृतकारितानुमतिलक्षणं पापं षट् कृत्वा - षड्वारान् प्रतिदिनं प्रतिवासरं प्रोच्यापि उक्त्वाऽपि भञ्जन्ति-खण्डयन्ति तेषाम् असाधूनां क्व तपः ? तपो नास्ति, सत्यवचनं च नास्त्येव । ज्ञानिता- सिद्धान्तपरिच्छेत्तृत्वं च नास्ति । व्रतं दीक्षा च नास्तीत्यर्थः ॥२३॥ देवार्थ-व्ययतो यथारुचिकृते सर्वर्तुरम्ये मठे ॥ २४ ॥ व्याख्या- 'देवार्थ० ' अहो ! इति आश्चर्यं सितपटा:- श्वेताम्बराः कष्टं व्रतं चरन्ति - दुष्करं चारित्रं अनुतिष्ठन्ति । किंविशिष्टा ? साधुव्याजविटा :- यतिव्याजेन धूर्त्ताः । पुनः कथम्भूताः ? Jain Education International For Personal & Private Use Only www.jalnelibrary.org

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262