Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 207
________________ १८० श्री सङ्घपट्टकः दूरीकर्तुमनाः सन् दुरध्वे-कुमार्गे दोषसंख्यां विवक्षेत्-'कुमार्गे एतावत्-संख्याको दोषः' इति वक्तुमिच्छेत् स पुमान् अम्भोऽम्भोधेः प्रमित्सेत्-प्रमातुमिच्छेत् । वेति पक्षान्तरं सकलगगनोल्लङ्घनं विधित्सेत्-सकलाकाशस्यातिक्रमणमिच्छेत् । योऽम्भोऽम्भोधेरवगाहते, यश्च समस्तगगनस्योल्लघनं करोति स कुमार्गे दोषसङ्ख्यां वदति, अतो दिग्मानं जल्पितमित्युक्तं, तस्मात् कुबोधं निरसिसिषुः कारुण्यात्-'माऽमी संसारसागरे बुडन्तु' इति कृपातः कथम्भूते दुरध्वे ? अनन्तकालात् प्रोद्भूतेअनन्तवर्षमासादिहेतुना सञ्जाते, कलिमलनिलये-दुःखमहापातकनिवासे । पुनः कथम्भूते ? नाम नेपथ्यतः-नाममात्राचरणतः अर्हन्मागभ्रान्तितात्त्विकजिनमार्गसादृश्यं दधाने-बिभ्राणे । पुनः किम्भूते दुरध्वे ? तत्त्वतः-परमार्थतः तदभिमरे-अर्हन्मार्गघातके यथा अभिमराः प्रच्छन्नघातकाः, स्ववेषेण राजादिकं हन्तुमशक्नुवन्तो वेषपरिवर्त्तनं कृत्वा राजादिकं निजन्ति तथा-एतेऽपि गृहस्थवेषेणार्हन्मार्गोच्छेदं कर्तुंमपारयन्तो . यतिवेषेणोच्छेदयन्तीत्यर्थः ॥३५॥ न सावद्याम्नाया न बकुशकुशलोचितयति, ॥३६॥ व्याख्या-तथा 'न सावद्या०' इह-प्रवचने एते यतयः-साधवः अद्यापि दुःषमाकालेऽपि सूत्ररतयः स्युः-सिद्धान्ताध्ययनाध्यापन-व्याख्यान-श्रवणपरायणाः भवेयुः । किम्भूताः ? येन सावद्याम्नायाः न सपापसंप्रदायाः । पुनः किम्भूताः ? न बकुशकुशीलोचितयतिक्रियामुक्ताः बकुशं शबलमतिचारेण समलं प्रक्रमाच्चारित्रं, तथा कुत्सितं चरणं येषां, तेषामुचितायोग्या[ क्रिया ]साधुसामाचारी तया न युक्ता-न सहिताः, कुत्सितयतिक्रियारहिता इत्यर्थः । पुनः किंविशिष्टाः ? मदममताजीवनभयैः न युक्ताः-जात्यादिमदममतागृहस्थादिषु जीविकानिर्वाहस्तस्माद् भयं येषां ते तादृशा न । पुनः किं विशिष्टाः ? न संक्लेशावेशा-न रौद्राध्यवसायोत्कर्षाः, पुनः किंभूताः 'न कदभिनिवेशाः' न कुत्सितमानसाग्रहवन्तः, पुनः कथंभूताः ? न कपटप्रियाः न मायावल्लभाः, एतावता दुःषमाकालप्रभावाद् अन्यत्कर्तुमपारयन्त इत्यर्थः ॥३६॥ संविग्नाः सोपदेशाः श्रुतनिकषविदः क्षेत्रकालाद्यपेक्षा ॥३७॥ व्याख्या-'संविग्ना: सो०' अस्मिन्-जिनशासने सत्साधवः-सुविहितमुनयः वन्द्याः । किंविशिष्टाः सत्साधवः ? संविग्ना:-निर्वाणेच्छवः । पुनः किंविशिष्टाः ? सोपदेशाःधर्मोपदेशतत्पराः । पुनः किंविशिष्टाः ? श्रुतनिकषविदः-शास्त्ररहस्यनिपुणाः । पुनः किम्भूताः क्षेत्रकालाद्यपेक्षानुष्ठाना:-देशकालानुसारेण विहारादिक्रियारम्भिणः । पुनः किंविशिष्टाः ? शुद्धमार्गप्रकटनपटवः-यथार्थश्रुत-पथप्रकाशनदक्षाः यथार्थमेव शास्त्रपथं प्रकाशयन्तीत्यर्थः । पुनः किंविशिष्टाः ? प्रास्तमिथ्याप्रवादाः दूरीकृतमिथ्याशास्त्रोक्तयः । पुनः किम्भूताः ? नियमशमदमेत्यादिनियमो-द्रव्याद्यभिग्रहः, शम:-कषायनिग्रहः, दमः-इन्द्रियदमनम् औचित्यं Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262