________________
१८०
श्री सङ्घपट्टकः दूरीकर्तुमनाः सन् दुरध्वे-कुमार्गे दोषसंख्यां विवक्षेत्-'कुमार्गे एतावत्-संख्याको दोषः' इति वक्तुमिच्छेत् स पुमान् अम्भोऽम्भोधेः प्रमित्सेत्-प्रमातुमिच्छेत् । वेति पक्षान्तरं सकलगगनोल्लङ्घनं विधित्सेत्-सकलाकाशस्यातिक्रमणमिच्छेत् । योऽम्भोऽम्भोधेरवगाहते, यश्च समस्तगगनस्योल्लघनं करोति स कुमार्गे दोषसङ्ख्यां वदति, अतो दिग्मानं जल्पितमित्युक्तं, तस्मात् कुबोधं निरसिसिषुः कारुण्यात्-'माऽमी संसारसागरे बुडन्तु' इति कृपातः कथम्भूते दुरध्वे ? अनन्तकालात् प्रोद्भूतेअनन्तवर्षमासादिहेतुना सञ्जाते, कलिमलनिलये-दुःखमहापातकनिवासे । पुनः कथम्भूते ? नाम नेपथ्यतः-नाममात्राचरणतः अर्हन्मागभ्रान्तितात्त्विकजिनमार्गसादृश्यं दधाने-बिभ्राणे । पुनः किम्भूते दुरध्वे ? तत्त्वतः-परमार्थतः तदभिमरे-अर्हन्मार्गघातके यथा अभिमराः प्रच्छन्नघातकाः, स्ववेषेण राजादिकं हन्तुमशक्नुवन्तो वेषपरिवर्त्तनं कृत्वा राजादिकं निजन्ति तथा-एतेऽपि गृहस्थवेषेणार्हन्मार्गोच्छेदं कर्तुंमपारयन्तो . यतिवेषेणोच्छेदयन्तीत्यर्थः ॥३५॥
न सावद्याम्नाया न बकुशकुशलोचितयति, ॥३६॥ व्याख्या-तथा 'न सावद्या०' इह-प्रवचने एते यतयः-साधवः अद्यापि दुःषमाकालेऽपि सूत्ररतयः स्युः-सिद्धान्ताध्ययनाध्यापन-व्याख्यान-श्रवणपरायणाः भवेयुः । किम्भूताः ? येन सावद्याम्नायाः न सपापसंप्रदायाः । पुनः किम्भूताः ? न बकुशकुशीलोचितयतिक्रियामुक्ताः बकुशं शबलमतिचारेण समलं प्रक्रमाच्चारित्रं, तथा कुत्सितं चरणं येषां, तेषामुचितायोग्या[ क्रिया ]साधुसामाचारी तया न युक्ता-न सहिताः, कुत्सितयतिक्रियारहिता इत्यर्थः । पुनः किंविशिष्टाः ? मदममताजीवनभयैः न युक्ताः-जात्यादिमदममतागृहस्थादिषु जीविकानिर्वाहस्तस्माद् भयं येषां ते तादृशा न । पुनः किं विशिष्टाः ? न संक्लेशावेशा-न रौद्राध्यवसायोत्कर्षाः, पुनः किंभूताः 'न कदभिनिवेशाः' न कुत्सितमानसाग्रहवन्तः, पुनः कथंभूताः ? न कपटप्रियाः न मायावल्लभाः, एतावता दुःषमाकालप्रभावाद् अन्यत्कर्तुमपारयन्त इत्यर्थः ॥३६॥
संविग्नाः सोपदेशाः श्रुतनिकषविदः क्षेत्रकालाद्यपेक्षा ॥३७॥ व्याख्या-'संविग्ना: सो०' अस्मिन्-जिनशासने सत्साधवः-सुविहितमुनयः वन्द्याः । किंविशिष्टाः सत्साधवः ? संविग्ना:-निर्वाणेच्छवः । पुनः किंविशिष्टाः ? सोपदेशाःधर्मोपदेशतत्पराः । पुनः किंविशिष्टाः ? श्रुतनिकषविदः-शास्त्ररहस्यनिपुणाः । पुनः किम्भूताः क्षेत्रकालाद्यपेक्षानुष्ठाना:-देशकालानुसारेण विहारादिक्रियारम्भिणः । पुनः किंविशिष्टाः ? शुद्धमार्गप्रकटनपटवः-यथार्थश्रुत-पथप्रकाशनदक्षाः यथार्थमेव शास्त्रपथं प्रकाशयन्तीत्यर्थः । पुनः किंविशिष्टाः ? प्रास्तमिथ्याप्रवादाः दूरीकृतमिथ्याशास्त्रोक्तयः । पुनः किम्भूताः ? नियमशमदमेत्यादिनियमो-द्रव्याद्यभिग्रहः, शम:-कषायनिग्रहः, दमः-इन्द्रियदमनम् औचित्यं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org