________________
विभाग-३, लघुवृत्तिः
१७९ सङ्घनाकृतचैत्यकूटपतितस्यान्तस्तरां ताम्यत ॥३३॥ व्याख्या-'सङ्घत्राकृ०' जन्तुहरिणवातस्य कुतो मोक्षः ? जन्तव एव हरिणाः, तेषां समूहस्य कुतो मोक्षः-कुतो निर्वाणम् ? कथम्भूतस्य जन्तुहरिणवातस्य ? सङ्घव्याघ्रवशस्य उत्सूत्रप्रज्ञापकः स्वच्छन्दचारी विषयलोलुपः साधु-साध्वी-श्रावक-श्राविकासमवायो भूयानिह सङ्घ उच्यते, स एव व्याघ्रः, यथा व्याघ्रायत्तस्य हरिणवातस्य मोक्षः च्छुटनं न भवति तथैवेति । पुनः कथम्भूतस्य ? सङ्घत्रा-श्रावकलोकेन कृतचैत्यकूटपतितस्य भक्त्या तदायत्तीकृतानि जिनगृहाणि, एतान्येव कूटाः मृगबन्धनयन्त्रविशेषास्तेषु प्रतिबद्धस्य । पुनः किं विशिष्टस्य ? अन्तस्तरां चेतो मर्मणि ताम्यतः खिद्यमानस्य मृगोऽपि बद्धः सन् चेतो मर्मण्यतितरां खिद्यति पुनः किं विशिष्टस्य ? सन्मुद्रादृढपाशबन्धनवतः सन्-तस्य सङ्घस्य मुद्रा चतुर्दश्यादिपर्वतिथयस्ता एव दृढपाशाः, तैर्बन्धनं, तद्युक्तस्य । अत एव स्पन्दितुं-चलितुम् अपि न शक्तस्य-न समर्थस्य । पुनः कथम्भूतस्य मुक्त्यै-मोक्षार्थं कल्पितदानशीलतपसःविहितदेशचारित्रानशनादेरपि । एतत्क्रमस्थायिनः-एतस्य-सङ्घस्य क्रमोरात्रिस्नानादिकापरिपाटी तद्वर्तिनः । एतावद्बन्धनयुक्तस्य तत्रापि सङ्घशार्दूलवशस्य जन्तुहरिणवातस्य कुतो मोक्षः ? न कुतोऽपीयर्थः ॥३३॥
इत्थं मिथ्यापथकथनया तथ्ययाऽपीह कश्चित् ॥३४॥ व्याख्या-'इत्थं मिथ्या०' ॥ इह-लोके इदम् अनुचितम्-अयोग्यं कश्चिन्माज्ञासीत् । इदं जिनवल्लभेनोक्तं सङ्घपट्टाख्यम् अनुचितमिति मा कश्चिन्मंस्त कया ? इत्थं-पूर्वोक्तप्रकारेण मिथ्यापथकथनयादिगम्बरोक्तमिथ्यापथप्रकथनया । कथम्भूतया ? तथ्ययापि-सत्ययापि । अथानन्तरं कश्चिन् मा कुपत्-मा क्रोधं कार्षीत् । अथ यद्येवं मिथ्यापथकथनेन परेषां क्रोधशङ्का तदासौ न कथनीय एवेत्याह-'यस्मा दिति यस्मात् कारणादेतत् किमपि दिग्मात्रं कृपयाअनुकम्पया कल्पितं-सकृत्-जल्पितं च-अतिशयेनोक्तं च । किं कृत्वा ? नून्-मानवान् प्रेक्ष्यअवलोक्य । कथम्भूतान् नन् ? जैनभ्रान्त्या-'अयं जैनमार्गः' इति मिथ्याज्ञानेन कुपथपतितान्कुमार्गप्रस्थितान् कस्मै कल्पितं ? तत्प्रमोहापोहाय-तेषां नृणां प्रचण्डमोहनाशाय । यथाऽमी मूढाः कुपथः स्वरूपं विज्ञाय तत्परित्यागेन सत्पथं गृहीत्वा संसारसागरं तरिष्यन्तीति कृपया जल्पितमित्यर्थः ॥३४॥
किमपि दिग्मानं जल्पितम् ? इति कथमुक्तं यावता सकलमेव कथं नोक्तमिति-अतः आह
प्रोद्भूतेऽनन्तकालात् कलिमलनिलये नाम नेपथ्यतोऽर्हन् ॥३५॥ व्याख्या-प्रोद्भूत० यः कश्चित् नृषु-मनुष्येषु कुबोध निरसिसिषुः सन् कुदेशनोत्पादितं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org