________________
श्री सङ्घपट्टकः
१७८
दशमाश्चर्यैः समा तत्समा दुषमा दुःखकारिणी, तस्यै जिनमतहतये- जिनमार्गोच्छेदनिमित्तं यद्येते तुष्टास्तदा जैनमार्गों दुर्लभ इत्यर्थः ॥३०॥
एवं तावदष्टादशवृत्तैः प्रबन्धेन लिङ्गिनां श्रुतपथावज्ञा प्रतिपादिता । संप्रति 'गुणद्वेषधी' रिति द्वारं निराकुर्वंस्तेषां गुणद्वेषं दर्शयन्नाह
सम्यग्मार्गपुषः प्रशान्तवपुषः प्रीत्योल्लसच्चक्षुषः ॥३१॥
व्याख्या -' सम्यग्मार्गपुषः ० ' ॥ उद्यद् रूषः - प्रचण्डक्रोधाः सत्साधून्- सुविहितयतीन् न क्षाम्यन्ति न सहन्ते । किंविशिष्टान् सत्साधून् ? सम्यङ्मार्गपुषः - ज्ञानादित्रयस्य मोक्षपथो[स्य ]विस्तारकान् सम्यग्ज्ञान- सम्यग्दर्शन- सम्यक्चारित्रपथपोषकान् । पुनः किंविशिष्टान् ? प्रशान्तवपुषः-रागद्वेषादिरहितशरीरयुक्तान् । पुनः किंविशिष्टान् ? प्रीत्योल्लसच्चक्षुषःप्रसन्नोत्फुल्लनयनान् सर्वत्र सदयावलोकिन इत्यर्थः । पुनः किंविशिष्टान् ? श्रामण्यद्धिमुपेयुषःपञ्चमहाव्रतसम्पत्तिम् आसेदुषः - पञ्चमहाव्रतानि-प्राणातिपात - मृषावादा- दत्तादान - मैथुनपरिग्रहाणां त्यागस्तस्य सम्पत्तिम् उपगतानि - इत्यर्थः । पुनः किम्भूतान् ? स्मयमुषःनिरहङ्कारिणः । पुनः किम्भूतान् ? कन्दर्पकक्षप्लुषः - मन्मथशुष्कतृणदाहिनः । पुनः किम्भूतान् ? सिद्धान्ताध्वनि तस्थुषः - जिनोक्तसम्यग्मार्गे स्थितान् तत्परानित्यर्थः । पुनःकिम्भूतान् ? शमजुषः - शान्तियुक्तान् पुनः किम्भूतान् ? सत्पूज्यतां जग्मुषःविवेकजनाराध्यत्वं प्रापितान् । एवं गुणविशिष्टानपि सद्यतीन् उद्यद्रूषः - प्रबलकोपाः न क्षाम्यन्ति - न सहन्ते इत्यर्थः ॥ ३१ ॥
देवीयत्युरुदोषिणः क्षतमहादोषानदेवीयति ॥३२॥
व्याख्या–‘देवीयत्यु०' ‘अहो' इत्याश्चर्यं जनो- लोकः अगुणाग्रण्यम् - अगुणभण्डारं स्वम्-आत्मानं कृतार्थीयति कृतार्थमिवाचरति आत्मानं विहितसकलकर्त्तव्यमिवाचरति, कथम्भूतो जनः ? मिथ्यात्वग्रहिलः - प्रबलमिथ्यात्वगम्भीरः प्रचण्डमिथ्यात्वाभिनिवेशग्रहगृहीतः । पुनः किं करोति ? उरुदोषिणः- प्रचुरापराधान् देवीयति - देवानिवाचरति, ये प्रबलदोषास्तान् । देवान् - जिनसदृशान् मन्यत इत्यर्थः । पुनः किं करोति ? क्षतमहादोषान् प्रणष्टप्रचुरापराधान् अदेवीयति - अदेवान् इवाचरत्ति । पुनः किं करोति ? मूर्खमुख्यनिवहंमहामूर्खसमूहं सर्वज्ञीयति - सर्वज्ञमिवाचरति । पुनः किं करोति ? तत्त्वज्ञम् अज्ञीयतिषड्दर्शनवेत्तारं मूर्खमिवाचरति । पुनः किं करोति ? जैनमार्गम् उन्मार्गीयतिकुमार्गमिवाचरति । पुनः किं करोति ? अपथम् - अमार्गं सम्यक्पथीयति - सन्मार्गमिवाचरति । एतावता सर्वमेव विपरीताचरणमाचरतीत्यर्थः ॥३२॥
ये केचन दुष्टयतिनो मुक्तमिवात्मानं मन्यन्ते तान् दुषयितुमाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org