________________
विभाग-३, लघुवृत्तिः
१७७ क्रियाविशेषणं, सावहेलं अज्ञानिव, यथा मार्गाभिज्ञा मार्गमुपदिशन्त उपहस्यन्ते लोकेन, तथैतेऽपि तेन । एवं प्रस्तुतमुपमानं योजयित्वा प्रस्तुतमुपमेयमिदानी योज्यते, कष्टमेतत्-'यत् नृणां' सत्पथेच्छुपुरुषाणां नष्टदृशाम्-अतिमुग्धतया सत्पथकुपथविभागानभिज्ञानात्, अदृशांसम्यग्ज्ञानदर्शनविकलानां जात्यन्धः-सिद्धान्तरहस्यलेशानभिज्ञः सर्वथा अगीतार्थः, सोऽपि गीतार्थसंवासादेः कथञ्चिन्मोक्षपथकथनप्रवीणः स्यात्तत्राह-वैदेशिको गर्हिताचारत्वाद् गीतार्थमुनिपुङ्गवसङ्गमात्रवर्जितः एष चाधुनिकदुस्सङ्घप्रवरो निशङ्कं निःश्रेयसपथप्रत्यर्थिमार्गकथनदीक्षितोऽयं यथाछन्दशिरोमणिः कश्चिदाचार्यो मन्तव्यः । कान्तारे-भवमहाटव्यां प्रदिशति अभीप्सितपुराध्वानं-मुक्तिमार्गम् उत्कन्धरोदर्शिताहङ्कारविकारः, तथा च सोऽगीतार्थः उत्सूत्रभाषको मिथ्यादृष्टिः कथञ्चिदपि सत्पथं मोक्षमार्गं न वेत्ति, नाप्यन्येन गीतार्थेन प्रतिपादितोऽपि प्रत्येति इति कष्टम्, एतत्कष्टतरं त्विति पूर्ववत्, सोऽपि प्रागभिहितो यथाच्छन्दाचार्यः सुदृशः-सम्यग्ज्ञानदर्शनयुजः सन्मार्गगान्-ज्ञानदर्शचारित्रलक्षणमुक्तिपथप्रवृत्तान् तद्विदो-मुक्तिमार्गविज्ञान् धार्मिकान् सुविहितसाधून् यत् हसति सावज्ञमज्ञानिव, यथा-किममी अगीतार्था मूर्खशिरोमणयः सिद्धान्तरहस्यं जानन्ति ?, अहमेव सकलश्रुतपारावारंपारदृश्वा, ततो यमहं ब्रवीमि स मुक्तिमार्ग इति । किमित्येवमुपहसतीत्यत आहतन्महाकष्टमित्युपमानोपमेययोस्तुल्यतया योजना । अत्र च मुग्धजनपुरतो निरङ्कुशं स्वकल्पितं चैत्यवासादिकमुत्सूत्रपथं प्रथयद्विधिविषयपारतन्त्र्यप्ररूपणानिपुणान्, सुगुरुसम्प्रदायानुवर्तिनः सुविहितानसूययोपहसन् सम्प्रति वर्तमानः कुसङ्घाचार्यवर्गोऽनया भङ्ग्या कविना प्रतिपादित इति वृत्तार्थः ॥२९॥
साम्प्रतं श्रुतपथावज्ञाद्वारमुपसञ्जिहीर्षुः शुद्धजिनमार्गस्य दुष्टोपचितसमुदितकारणकलापेन सम्प्रति दुर्लभत्वं प्रतिपादयन्नाह
सैषा हुण्डावसपिण्यनुसमयहसद्भव्यभावानुभावा ॥३०॥ व्याख्या-'सैषा हुण्डा' ॥ एवं अमुना प्रकारेण अनुकूलं-प्रतिसमयं दुष्टेषु-क्रूरेषु पुष्टेषु सत्सु जैनमार्गो दुर्लभः-अर्हत्पथो दुष्प्राप्यः, यदा तु क्रूराः पुष्टास्तदा जैनमार्गो दुर्लभो जात इत्यर्थः । एवं कथं ? सैषा हुण्डानाम्नी अवप्पिणी-कालविशेषः । कथम्भूता-अवसप्पिणी ? अनुसमयं हसद्भव्यभावानुभावा, अनुसमयं-प्रतिसमयं प्रतिक्षणं ह्रसन्-हीयमानः भव्यजनानां शुभभावस्यानुभावः-प्रभावो यस्यां सा । अयं त्रिंशत् उग्रग्रहश्च ।
जिनसिद्धान्तोक्ताष्टाशीतिग्रहमध्यात् त्रिंशतः पूरणो भस्मराशिः, कथम्भूतो भस्मराशिः ? ख-ख-नखमितिवर्षस्थितिः “पश्चानुपूर्व्या अंकरचना ज्ञातव्या" । खं-शून्यं, तत्पश्चात् पुनः खं-शून्यं, तत् पश्चान्नखं-विंशतेरंकः एतावत् (२०००) स्थितिः । अन्त्यदशममाश्चर्यं च असंयतपूजाऽनाचारप्रतिपादकमाश्चर्यं च तत्समा दुष्षमा च तैरेवावसप्पिणीभस्मराशि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org