________________
१७६
श्री सङ्घपट्टकः अन्यनाशनकृतेपरनाशाय बद्धोद्यमानां स्वयम् नष्टाः परानपि नाशयन्तीत्यर्थः । पुनः कथंभूतानां ? 'महामोहाद्'घनप्रचुरतराविवेकात् 'अहम्मानिनाम्'-अहमेव, नान्यः इति मानिनां । पुनः कथम्भूतानां ? सिद्धान्तद्विषतां-जिनशास्त्रवैरिणाम् । पुनः कथम्भूतानां ? दुर्भेद्यस्फुरदुग्रकुग्रहतमःस्तोमास्तधीचक्षुषां-दुर्भेद्याः दुरुच्छेद्याः स्फुरन्तो-मनसि जाग्रद्रूपाः ये उग्रकुग्रहा:-जिनगृहनिवासादयस्त एव तमःस्तोमा:-अन्धकारपटलानि, तैरस्तं प्रापितं धीरेव चक्षुर्येषां तेषाम् ॥२७॥
यत्किञ्चिद् वितथं यदप्यनुचितं यल्लोक-लोकोत्तरो ॥२८॥ व्याख्या-'यत् किञ्चित् ' यत् कुधियः-कुबुद्धयः तत्तद्धर्म इति ब्रुवन्ति-अयमेव धर्म इति कथयन्ति तत् दुरन्तदशमाश्चर्यस्य विस्फूर्जितं-विजृम्भितं, तत्, किं यत् किञ्चित् वितथम्अलीकं यदिति सामान्यतो निर्दिष्ट-विशेषतोऽनिर्दिष्टनामा, यदप्यनुचितम्-अयोग्यं यल्लोकलोकोत्तरोत्तीर्णजिनमार्गाद् बहिर्भूतं जिनप्रवचनबाह्यं जिनमार्गादतीतमित्यर्थः, यद्भविनांदेहिनां भवहेतुरेव येन संसारबन्धो भवतीत्यर्थः, यतः शास्त्रबाधाकरं-सिद्धान्तविरुद्धं न केवलं धर्म इति कथयन्ति । अर्हन्मतभ्रान्त्या लान्ति च, कोऽर्थः ? जिनमार्गोऽयमिति मिथ्याज्ञानेन गृह्णन्ति च, कथम्भूतास्ते ? मूढाः ॥२८॥
साम्प्रतं मुग्धजनान् प्रति स्वमतं मोक्षपथतयादिशत, सत्पथगामिनश्च धार्मिकान् स्ववचनाननुरोधित्वेनाज्ञतया अवजानानस्य कस्यचिद्यथाछन्दाचार्यग्रामण्योऽप्रस्तुतप्रशंसया स्वरूपमाह
कष्टं नष्टदिशां नृणां यददृशां जात्यन्धवैदेशिकः ॥२९॥ व्याख्या-'कष्टं' दुःखमेतन्नश्चेतसि वर्त्तते , यत्किमित्याह-यदिति वाक्योपक्षेपे, यन्नृणामदृशां जात्यन्धवैदेशिकः कान्तारेऽभीप्सितपुराध्वानं प्रदिशतीति सम्बन्धः । तत्र 'नृणां' पुंसां नष्टदृशाम्-अलोचनत्वात् कान्तारपातेन दिङ्मूढत्वाच्च प्रभ्रष्टप्राचीप्रतीच्यादिककुप्विभागपरिच्छेदानाम्, अदृशांकाचकामलादिनां दृग्विकलानां, न तु जन्मान्धानां, जन्मान्धो जन्माभिव्याप्त्या लोचनरहितः । ननु सोऽपि तद्देशजात इतरेभ्यः श्रवणादिना विज्ञाय कथञ्चिदिष्टपुरपथं देक्ष्यतीति तत्रोक्तं "वैदेशिक" इति, विदेशे-योजनशतव्यवहिते देशान्तरे जातो वद्धितश्चेति वैदेशिकः । स हि तद्देशस्वरूपमात्रस्याप्यनभिज्ञत्वात्कथं प्रकृतमार्ग जानीयादपि । ततः कर्मधारयः । कान्तारे जनसञ्चारशून्ये दुर्गवर्त्मनि 'प्रदिशति' प्रतिपादयति अभीप्सितपुराध्वानं-जिगमिषितनगरमार्ग, किलेति वार्तायाम्, उत्कन्धरः-उद्ग्रीवः कन्धरामुन्नमय्य भुजदण्डमुत्क्षिप्य कथयतीतिकष्टमेतत् । तुः पुनरर्थे, इदं वक्ष्यमाणं पुनः कष्टतरं-पूर्वस्मादपि कष्टान्महाकष्टं, यत् किमित्याह-'सोऽपि' प्रागुक्तो मार्गदेष्टा 'सुदृशो' निर्मलनयनानत एव 'सन्मार्गगान्' इष्टनगरसुगमपथप्रस्थितान् तद्विदः सम्यक्सन्मार्गज्ञान् यत् हसति, सावज्ञमिति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org