________________
विभाग-३, लघुवृत्तिः
१७५ यथारुचिकृतेस्वमनोभिलाषरूपे मठे नित्यस्थाः सर्वदा मनोरमजिनगृहनिवासिनः । किं कुर्वन्तः ? देवार्थं व्ययतः-तद्देवद्रव्यं व्ययं कुर्वन्तः । कथम्भूते मठे ? सर्वर्तुरम्ये-सकलवसंतादिऋतुमनोहरे । पुनः कथम्भूताः ? शुचिपट्टतूलशयनाः-निर्मलपट्टवस्त्रयुत् तुलशयनाः कोमलशय्याशायिन इत्यर्थः । पुनः कथम्भूताः ? सद्गब्दिकाद्यासनाः-कोमलगब्दिकाद्यासनभाजः । पुनः कथम्भूताः ? सारम्भाः आरंभसहिताः । पुनः कथम्भूताः ? सपरिग्रहा:-धनधान्यादिभाण्डसङ्ग्रहपरायणाः, सविषयाः-विषयासक्तचेतसः सेाः-सक्रोधाः । सकाङ्क्षाः सम्भोगविलासोत्कण्ठिताः, सदा-सर्वदा ॥२४॥
इत्याद्युद्धतसोपहासवचसः स्युः प्रेक्ष्य लोकाः स्थितिम् ॥२५॥ व्याख्या 'इत्याद्युद्धत०' येषां मिथ्योक्त्या-मिथ्यात्ववचनेन सुदृशोऽपि सम्यग्ज्ञाना अपि मनो बिभ्रति-धारयति । कथम्भूतं मनः ? सन्देहदोलाचलम् इदं समीचीनम् इदं वा इति य सन्देहः स एव दोला-हिन्डोलकस्तेन चञ्चलं, ननु निश्चितं सर्वथा जिनपथप्रत्यर्थिनः, कोऽर्थः ? अर्हत्पथशत्रुभूताः लोका:-जनाः स्थितिम्-अनाचाररूपां श्रुत्वा इत्याधुद्धतसोपहासवचसः स्युः, कोऽर्थः ? उक्तप्रकारेण सहास्यवचना भवेयुः-'अहो जैनाः अन्यथावादिनः अन्यथाकारिणः, अस्माकमेव दर्शनं श्रेयः इत्यादि वचनसन्दर्भेण, अतो हेतोः अभिमुखा अपि जनाः श्रुतपथात्-जिनसिद्धान्तमार्गाद् वैमुख्यं-विमुखताम् आतन्वते-विस्तारयन्ति । मिथ्यावादिनां मिथ्यावचनेन अभिमुखा अपि जना जिनमार्गाद् विमुखा भवन्ति, इति श्लोकार्थः ॥२५॥
सर्वैरुत्कटकालकूटपटलैः सर्वैरपुण्योच्चयैः, व्याख्या-'सर्वैरुत्कट०' ॥२६॥ 'ततः' इति पश्चात् श्लोकस्यात्र वर्त्तते । ततो हेतोःपश्चादुक्त हेतोः-अमुं-दुर्मार्गम् आसेदुषां-प्रस्थितानां मानसं नूनं-निश्चितम् एतैः क्रूरमकारिक्रूरं कृतम् एतैः कैः? सर्वैः उत्कटकालकूटपटलैः अत्युग्रविषसमूहै: न केवलम् उत्कटकालकूटपटलैः सर्वैः अपुण्योच्चयैः-सकलपापराशिभिः, न केवलमेतैः सर्वैालकुलैश्चअशेषसर्पसमूहैः, न केवलमेतैः समस्तविधुराधिव्याधिदुष्टग्रहैः सकलदुःखमनोव्यथामङ्गलादिपापग्रहैः । कथम्भूतानां ? दौरात्म्येनदुष्टाशयत्वेन जिनपथं निजघ्नुषाम्-उच्छेतृणां, पुनः कथम्भूतानाम् ? वचनेन इति ऊचुषाम्-अभिदधुषाम् ॥२६॥
अतः
. दुर्भेद्यस्फुरदुग्रकुग्रहतमः स्तोमास्तधीचक्षुषाम् ॥२७॥ व्याख्या-'दुर्भेद्यस्फुरदुग्र०' अतो हेतोः सदा-सर्वदा मिथ्याचारवतां-मोक्षमार्गविपरीताचारयुक्तानां वचांसि सकर्णः-सश्रवणः कथं कर्णे कुरुते ? कथं श्रवणे धारयति ? अपि तु न कथमपि इत्यर्थः । कथम्भूतानां मिथ्याचारवतां ? स्वयं नष्टानाम् । पुनः कथम्भूतानाम् ?
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org