________________
१७४
सर्वत्रास्थगिताश्रवाः स्वविषयव्यासक्तसर्वेन्द्रियाः ॥२२॥
व्याख्या - कष्टमिति खेदेन उद्धतधियः - 'नास्त्यस्मत् समो जगति संप्रति कश्चने ति दर्पाध्मातबुद्धयः तुष्यन्ति - मोदन्ते, पुष्यन्ति - वर्द्धन्ते च किं कृत्वा ? सन्मुनिमूर्द्धसु स्थित्वामुनिमस्तकेषु स्थितिं विधाय, किं विशिष्टाः ? अन्त्याश्चर्यराजाश्रिताः - दशमाश्चर्यनृपानुगताः, यथा नीचा अपि केचन राजादेरवष्टम्भेन महतामपि मूर्द्धानमारुह्य पुष्यन्ति । एवमेतेपि दशमाश्चर्यराजाश्रिता महामुनीन् परिभूय पुष्यन्तीत्यर्थः ।
श्री सङ्घपट्टकः
पुनः किं विशिष्टाः ? सर्वाकृत्यकृतोऽपि - कोऽर्थः ? लोकलोकोत्तरविरुद्धाब्रह्मसेवनपुष्पफलाद्युपभोगाद्यसदाचारकारिणोऽपि सर्वमकृत्यं कुर्वन्तीत्यर्थः । सर्वत्रास्थगिताश्रवाः लोकसमक्षम् अनिरुद्धपञ्चाश्रवाः । पुनः किम्भूताः ? स्वविषयव्यासक्तसर्वेन्द्रियाः, स्वविषयेषु - स्पर्शादिषु व्यासक्तानि - विशेषणलग्नानि इन्द्रियाणि त्वगादीनि येषां ते । पुनः किम्भूताः ? वल्गद्गौरवचण्डदण्डतुरगाः, वल्गन्तः - यदृच्छया प्रसरन्तः गौरवैः चण्डा:उत्कटाः, दण्डाः-अकुशलमनोवाक्काया एव तुरगा येषां ते । पुनः किम्भूताः ? पुष्यत् कषायोरगाः सुपुष्टक्रोधसर्पाः । एतावता पञ्चाश्रवविरमण -पञ्चेन्द्रियनिग्रहैं-दण्डत्रयविरतिकषायचतुष्टयजय-लक्षणसप्तदशविधसंयमविहीना अपि ते सत्साधूनतिक्रामन्ति इति
श्लोकार्थः ॥
इदानीं दुष्टयतिभ्यो गृहस्था एव श्रेष्ठा इति दर्शयितुमाह
सर्वारम्भपरिग्रहस्य गृहिणोऽप्येकाशनाद्येकदा ॥२३॥
व्याख्या- 'सर्वारम्भ०' गृहिणोऽपि हृदि तीव्रानुतापो भवेत् । निष्ठुरपश्चात्तापो जायते । किं विशिष्टस्य गृहिणः ? न रक्षतः न पालयतः, किम् ? एकाशनादि-एकभक्तादि, किं कृत्वा ? प्रत्याख्याय-नियम्य । क्व ? एकदा अष्टम्यादितिथिषु । यदि कश्चिद् गृहस्थः अष्टम्यादितिथिषु एकभक्तादेर्नियमं गृह्णाति पश्चात् तं खण्डयति तस्य चेतसि महान् पश्चात्तापो भवतीत्यर्थः । किं विशिष्टस्य गृहिणः ? सर्वारम्भस्य परिग्रहस्य- सकलपापव्यापारतत्परस्य सदा-सर्वदा, ये पुनः त्रिधामनोवाक्कायारूपेण त्रिविधं कृतकारितानुमतिलक्षणं पापं षट् कृत्वा - षड्वारान् प्रतिदिनं प्रतिवासरं प्रोच्यापि उक्त्वाऽपि भञ्जन्ति-खण्डयन्ति तेषाम् असाधूनां क्व तपः ? तपो नास्ति, सत्यवचनं च नास्त्येव । ज्ञानिता- सिद्धान्तपरिच्छेत्तृत्वं च नास्ति । व्रतं दीक्षा च नास्तीत्यर्थः ॥२३॥
देवार्थ-व्ययतो यथारुचिकृते सर्वर्तुरम्ये मठे ॥ २४ ॥
व्याख्या- 'देवार्थ० ' अहो ! इति आश्चर्यं सितपटा:- श्वेताम्बराः कष्टं व्रतं चरन्ति - दुष्करं चारित्रं अनुतिष्ठन्ति । किंविशिष्टा ? साधुव्याजविटा :- यतिव्याजेन धूर्त्ताः । पुनः कथम्भूताः ?
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org