________________
१७३
विभाग-३, लघुवृत्तिः अन्यदप्याह
जिनगृह-जैनबिम्ब-जिनपूजन-जिनयात्रादि विधिकृतं ॥२०॥ व्याख्या-'जिनगृह०' इह-प्रवचने एतदपि सर्वं स्फुट-प्रगट व्यक्तमेव अनभिमतकारि भवति-अनिष्टविधायि भवेत् ॥ कस्मादित्याह-कुमतकुगुरुकुग्राहकुबोधकुदेशनांशतः, अस्यार्थः-कुत्सितं मतं कुमतं, कुत्सितो गुरुः कुगुरुः, कुग्राह:-सिद्धान्तग्राह्यस्वमतिकल्पितासत्पदार्थसमर्थ-नानुष्ठानविषयो मानसोऽभिनिवेशः, जिनशास्त्रस्याज्ञानादन्यथा परिच्छेदः कुबोधः, सिद्धान्ता-भिहितार्थानां विन्यासेन प्ररूपणा भणिता कुदेशना, तासाम् अंशतः-लेशतः । एतत् किं ? जिनगृहं-अर्हद्भवनं, जैनबिम्ब-भागवती प्रतिमा, जिनपूजनंभगवत्पूजा, जिनयात्रादि-भगवत्कल्याण-काष्टाह्निकादि, एतत् सर्वं विधिकृतमपि-जिनोक्तप्रकारेण निष्पादितमपि दानतपोव्रतादि-दानं तपः पूर्वं व्याख्यातम्, व्रतादि-स्थूलप्राणातिपातविरमणादि; गुरुभक्तिः -आचार्यशुश्रूषा, श्रुतपठनादिसिद्धान्ताध्ययनम् । एतत् सर्वमपि उक्तहेतोः अनिष्टविधायि भवेत् आइतमपि-सबहुमानमपि । किमिव ? वरभोजनमिव यथावसरं हृद्यं भोजनं विषलवनिक्षेपतः-गरलकणनिक्षेपात् अनभिमतकारि भवति-अनिष्टविधायि भवति, एतावता कुमतादिसंसर्गाज्जिनपूजनादिकमपि शुभदायि न भवतीत्यर्थः ॥२०॥ . सकपटयति वर्णयितुमाह
___ आक्रष्टुं मुग्धमीनान् बडिशपिशितवद् बिम्बमादर्श्य जैनम् ॥२१॥
व्याख्या 'हा' इति कष्टे, अयं जनो-लोकः शठ्ठः-धूर्यतिभिः वञ्च्यते-विप्रलभ्यते । किं विशिष्टः ? श्रद्धालुः-विवेकविकलः धर्मेच्छावान्, क इव ? शाकिन्यादिवशीकृत इव यथा शाकिन्यादिवशीकृतः केनचिद् वञ्च्यते ॥ कैः ? यात्रास्नात्राद्युपायैः, यात्रा-जिनयात्रा, स्नात्रंजिनस्नात्रम्, इत्यादयः उपायाः-प्रकारास्तैः, न केवलं यात्राद्युपायैः, नमसितकनिशाजागरादिच्छलैश्च, नमसितकं-उपयाचितकं "भवतामिदानीमीदृश उपद्रवः समुपस्थितस्तस्माद् भवद्भिस्तन्निवृत्तये जिनगोत्रशासनसुराणाम् इयद् द्रव्यमेषणीय"मिति । निशाजागरादिच्छलैः-रात्रिजागरणादिव्याजैः किं कृत्वा वञ्च्यते ? जैनबिम्बम् आदर्य दर्शयित्वा, कोऽर्थः ? जिनप्रतिमां दर्शयित्वा । न केवलं जिनप्रतिमां दर्शयित्वा तन्नाम्ना-जिननामधेयेन स्वेष्टसिद्ध्यै-आत्माभिमतनिष्पत्तये गृहान् कारयित्वा, कथम्भूतान् गृहान् ? रम्यरूपान्मनोहरान् किंवत् दर्शयित्वा ? मुग्धमीनान् आक्रष्टुं बडिशपिशितवत्, यथा व्याधो बडिशेमत्सवेधने पिशितं-मांसं विधाय मुग्धमीनान्-मुग्धान् मत्स्यान् आकर्षयति ? हेयोपादेयविचारशून्यतया धर्मश्रद्धालवस्त एव मत्स्यास्तान् ॥२१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org