________________
१७२
_ श्री सङ्घपट्टकः. कुपथप्रवृताः एव सन्ति किन्तु एतत् कृते, कोऽर्थः ? जिनमार्गकृते जिनमार्गनिमित्तं असूयन्ति च-ईर्ष्या कुर्वन्ति च । किं कृत्वा ? श्रुतस्य मूर्ध्निशास्त्रमस्तके पदं-चरणं कृत्वा-विधायेत्यर्थः किंविशिष्टा अमी ? दृष्टोरुदोषा अपि-साक्षादवलोकितकुपथदोषा अपि अदृष्टदोषा हि विवेकिनोऽपि कुपथान्न निवर्तितुं समीहन्ते किं पुनः अन्येऽपि दृष्टदोषाः ते मूर्खा अपि कुपथान्ननिवर्तन्त एवेति श्लोकार्थः ॥१७॥ सिद्धान्ते हि रजन्यां जिनस्नात्रं पापपङ्के निमज्जनाय प्रवदन्ति इत्यत आह
____ इष्टावाप्तितुष्टविटनटभटचेटकपेटकाकुलम् ॥१८॥ ___ व्याख्या-'इष्टावाप्ति०' जिन मज्जन-जिनस्नानम् अविधिना-सिद्धान्तोक्तविधिवैपरीत्येन मूढजनेन विहितः सन् अघपङ्के-पापकर्दमे निमज्जनमेव जनयति, कोऽर्थः ? सिद्धान्तोक्तप्रकारेण यदि देवस्नात्रं न विधीयते तदा स्नात्रादपि नरकपतनमेव भवतीत्यर्थः । कथभूतं स्नात्रम् ? इष्टावाप्ति तुष्टविटनटभटचेटकपेटकाकुलम्, इष्टाया:-प्रियायाः स्नात्रदर्शनव्याजेनागताया अवाप्तिः-मिलनं, तया तुष्टाः विटा: 'निःशङ्कमत्राद्य नः सुरतलीला प्रवर्तिष्यते' इति धिया मुदिता विटाः-वेश्यापतयः, नटाः-नर्तकाः, भटाः-शस्त्रादिकलाजीविनः, चेटका:-मासादि नियमिता वृत्ति ग्राहिणः, एतेषां पेटकः-समूहः, तेन आकुलं-क्षुभितम्, पुनः कथम्भूतं स्नात्रं ? निधुवनविधिनिबद्धदोहदनरनारी- निकरसंकुलं-निधुवनं-सुरतं तदर्थं निबद्धो दोहदः-अभिलाषो यैस्तैर्नरनारीनिकरैः-समूहै: संकुलं-व्याप्तं । कथंभूतं स्नात्रं ? रागद्वेषमत्सरेणूंघनं-कस्यचित् परवर्णिनी प्रति रागः स्नेहः, स्वप्रेयसीमन्येन सह संगच्छमानां पश्यतस्तज्जिघांसया द्वेषः, मत्सरश्च-स्ववल्लभामन्येन सह लपन्तीम् विलोक्यतः पुरुषस्य, असहिष्णुता-ईर्ष्या, ताभिर्घनं-सान्द्रम्, एतावता सकलविकारसामग्रीपरिपूरितमूर्खजनविहितस्नात्रादपि नरके पतनमेव भवतीत्यर्थः ॥१८॥ न केवलं स्नात्रमेव नरकजनकं किन्तु अविधिकृतं व्रताद्यपीत्याह
जिनमतविमुखविहितमहिताय न मज्जनमेव केवलम् ॥१९॥ व्याख्या-'जिनमत०' केवलं जिनमतविमुखविहितं-जिनशास्त्रविपरीतकृतं मज्जनमेव 'अहिताय' संसाराय न भवति किं तर्हि ? (किंतु) तपश्चरित्रदानाद्यपि अनशनादि सर्वविरतिः अपि शिवफलं-मुक्तिरूपफलं न जनयति । एतावता जिनशास्त्रविपरीतकृतं सर्वमेव निष्फलमेवेति श्लोकार्थः । हि-यतः कारणात् अविधिविधिक्रमात् सिद्धान्तानुक्तोक्तप्रकारेण, सिद्धान्ते यन्नोक्तं तेन प्रकारेण जिनाज्ञाऽपि-अर्हदागमोक्तानुष्ठानमपि अशुभशुभायअकल्याणसंपत्तये जायते । 'कि'मित्याक्षेपे वाक्यभेदे वा, 'पुन 'रिति हेतुप्रकारेण अहितहेतुःसंसारबन्धनहेतुः विडम्बनैवलोकोपहासास्पदमेव न प्रसार्यते न विस्तार्यते ? अपि तु विस्तार्यत एवेत्यर्थः ॥१९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org