________________
विभाग - ३,
, लघुवृत्तिः
एतेन प्रव्रज्याऽपि कुलीनस्यैव योग्येति प्रतिपादयन्नाह
क्षुत्क्षामः किल कोऽपि शिशुकः प्रव्रज्य चैत्ये क्वचित् ॥१५॥
व्याख्या-' क्षुत्क्षामः 'किलेति संभावने कोऽपि र शिशुकः - अज्ञातनामा क्षुत्क्षामः सन्बुभुक्षादुर्बलः सन् क्वचिदनिर्दिष्टनाम्नि चैत्ये- जिनगृहे प्रव्रज्य - दीक्षां गृहीत्वा कञ्चनं श्रावकं पक्षं कृत्वा तदाचार्यकं प्राप्त:तः - सूरिपदं गतः सन् कथम्भूतः ? अक्षतकलिः अखण्डितकलहः चित्रम्-आश्चर्यं चैत्यगृहे गृहीयति गृह इव आचरति । निजे गृहे कुटुम्बीयति - कुटुम्ब इवाचरति । स्वं- आत्मानं शक्रीयति शक्रमिवाचरति बुधान् - पण्डितान् बालिशीयति-मूर्खानिवाचरति । विश्वं-जगत् वराकीयति-रङ्कमिवाचरति, अतो मूर्खबहुलं जगत्, यतेः कुलशीलादिकं न विचारयति किञ्चित् मोहनोच्चाटनाद्यद्भुतमवलोक्य दुष्टमपि यतिं देववत् पूजयन्तीत्यर्थः ॥१५॥
अस्मिन्नेवार्थे - अपरमपि वृत्तमाह
यैर्जातो न च वर्द्धितो न च न च क्रीतोऽधमर्णो न च ॥१६॥
व्याख्या - यैर्जातो ० ॥ तैरेव अधमाधमैः - अत्यधमैः यतिभिः अयं जनो- लोकः बलात् हठात् वाह्यते-यत्र तत्र नीयते अतः हा ! इति कष्टे इदं जगत् नीराजकं - राजशून्यं, राजा चेद् • भवति तदा एतदनुचितं न भवति इत्यर्थः तैः कैः ? यैः यतिभिरयं लोको न जातः - नोत्पादितः योगक्षेमादिसंपादनेन, यैर्न च वर्द्धितः - शरीरपोषणं न प्रापितः, यैर्न च क्रीतः - अन्यस्मान्मूल्यदानेन न गृहीतः, न च अधमर्णेन - उद्धारादिप्रयोगेण गृहीतः, न च प्राक् पूर्वं दृष्टः - अवलो - कितः, न च बान्धवः पितृव्यभ्रातृसम्बन्धवान्, न च प्रेयान् वल्लभतरः, न च प्रीणित:तोषितः । एतावता ये यतयः न दृष्टा, न श्रुताः, न च संबन्धिनः, तैर्दुष्टयतिभिः अयं जनो लोकः बलाद्वाह्यते । किंवत् ? नस्योतः पशुवत् यथा नस्योतः पशुर्यत्र तत्र नीयते इत्यर्थः । चकारः सर्वसमुच्चयार्थः ॥१६॥
कुपथावस्थितजडजनानवलोक्य प्रकरणकारः प्राह
१७१
Jain Education International
किं दिग्मोहमिताः किमन्धबधिराः किं योगचूर्णीकृताः ॥ १७ ॥
व्याख्या-'किं दिग्मोह०' यद् यस्माद्धेतोः अमी जड़ा:- मूर्खाः जनाः कुपथात्-कुमार्गात् व्यावृत्तिम्- अपसरणं न दधते-न कुर्वते तस्माद्धेतोः एते जनाः- लोकाः किं दिग्मोहम् इताः पूर्वादिदिक्षु पश्चिमादिविभ्रमः दिग्मोहः तं प्राप्ताः ? । किम् अन्धबधिराः जाता: ? अन्धा :नेत्रहीनाः । बधिराः-कर्णहीनाः । किं वा योगचूर्णीकृताः ? - मस्तकादिषु चूर्णक्षेपेण वशीकृताः । किं वा दैवोपहताः ? दैवेन विधिना उपहताः - विभ्रंशं प्रापिताः । 'अङ्गे 'ति सम्बोधने । किं वा ठगिताः ? - स्वायत्तीकृताः । किं वा ग्रहावेशिताः ? भूतादिशरीराधिष्ठानाः । न केवलं
For Personal & Private Use Only
www.jainelibrary.org