________________
१७०
श्री सङ्घपट्टकः
सावद्याचरितादराख्यमष्टमं द्वारं निरूपयन्नाह
व्याख्या-'गृही नियतगच्छ० ' गतानुगतिकैः-गड्डरिकाप्रवाहरूपैः अनगारिणां-यतीनाम् असंस्तुतम्-अनुचितम्, अदः-एतत् कथं प्रस्तुतं-प्रारब्धम् । एतत् किं ? गृही-श्रावको नियतगच्छभाग् भवति, कोऽर्थः ? आत्मसदृशो गच्छो येषाम् तेषामेव समुदायभजनेन गुणदोषादिकं विचारयति अन्ययतेः मुनेः जिनगृहे अधिकारः एतदपि विरुद्धमेव, अपरं च आरम्भिभिः-गृहिभिः साधुषु-यतिषु यथा तथा, कोऽर्थः ? येनैव प्रकारेण तेनैव अशुद्धमपि अशनादि-भक्तपानादि प्रदेयं वितरणीयम् । एतदपि विरुद्धमेव । अपरं च व्रतादिविधिवारणंसर्वविरत्यादिविधेारणनिषेधः । एतदपि विरुद्धम् । सुविहितान्तिके-सान्तिके-सन्मुनिसमिपे कथं प्रारब्धमित्यर्थः ॥ अष्टमं द्वारम् ॥१२॥
नवमं द्वारं निषेधयितुमाह
व्याख्या-निर्वा० जनाः-लोकाः यत् ईदृशं यतिं देवेभ्योऽपि-जिनेभ्योऽपि अधिकं यथा स्यात् तथा अर्चयन्ति-पूजयन्ति तत् महतः-प्रबलस्य मोहस्य-अज्ञानस्य जृम्भितं-लीलायितं । कीदृशं यति ? निर्वाहार्थिनं, कथं ? निर्वाहो-जीविका भवतीत्ययमेवार्थः प्रयोजनं यस्य तम् । पुनः कीदृशं ? गुणलवैः-गुणलेशैरपि उज्झितं-त्यक्तम् । पुनः कथम्भूतम् ? अज्ञातशीलान्वयं अविदिताचारकुलं पुनः कथम्भूतं गुरुणा-आचार्येण स्वार्थाय-प्रयोजनाय मुण्डीकृतं-दीक्षां नीतम् । कथम्भूतं गुरुणा ? तादृग्वंशजतद्गुणेन-तादृशिष्यवंशजातेन तद्गुणेन-शिष्यसदृशगुणेन । किंविशिष्टा जनाः ? विख्यातगुणान्वया अपि-प्रसिद्धगुणवंशजाता अपि । अकुलीनाः कुलीनं पूजयन्ति तदा पूजयन्तु, (किन्तु) कुलीना अपि अकुलीनं पूजयन्ति, इति मोहप्राबल्यम् । पुनः किंविशिष्टाः ? लग्नोग्रगच्छग्रहा:-चेतसि निविष्टो यः उग्रगच्छप्रतिबन्धः तद् युक्ता इत्यर्थः । द्वारम् ९ ॥१३॥
'गुणद्वेषधी' इतिद्वारं निषेधयितुमाह
व्याख्या-दुष्प्रापा० ॥ गुरुकर्मसञ्चयवतां-गरिष्टसंसारबन्धहेतुकर्मयुक्तानां प्राणिनां सद्धर्मबुद्धिर्दुष्प्रापा, कोऽर्थः ? दुःखेन प्राप्यते तस्यां सद्धर्मबुद्धौ जातायामपि उत्पन्नायामपि शुभगुरुर्दुर्लभः यो गुरुरिष्टतरं किञ्चिदुपदिशति । सोऽपि शुभगुरुः पुण्येन यदि प्राप्यते तथापि अमी जनाः स्वहितं कर्तुं नालम्-आत्मनो हितं कर्तुं न समर्थः । किं विशिष्टा जनाः ? गच्छस्थितिव्याहताः-'युष्मत्कुलादृतोऽयं गच्छस्तत एनं गच्छं त्यक्त्वा भवद्भिर्नान्यपार्श्वे श्रवणसम्यक्त्वव्रतप्रतिपत्त्यादिकं विधेयम्' इति गृहस्थस्य यतिविहिता व्यवस्था, तथा गच्छस्थित्या व्याहताः-वशीकृता इत्यर्थः, अतो हेतोः किं ब्रूमः-किं भणामः ? इह-संसारे, किम् आश्रयेमहि-निषेवेमहि ? किम् आराध्येमहिकस्याराधनां कुर्मः ? किं वा कुर्महेविदध्मः, इति दशमं द्वारम् ॥१४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org