________________
विभाग-३, लघुवृत्तिः
१६९ उत्सर्गापवादौ-सामान्यविधिविशेषविधी यस्मिन् । पुनः कथम्भूते निशीथे ? शिवपुरीदूतभूतेमुक्तपुरीसन्देशहरसदृशे । पुनः किं कृत्वा ? पश्चात्-तदनन्तरं कारणेऽपोद्य-अपवादविषयीकृत्य । किं विशिष्टे अगारधाम्नि ? स्त्रीसंसक्त्यादि युक्तेऽपि-स्त्रीपण्डकादिसहितेऽपि । ननु विकारसामग्रीसहिते गृहस्थगृहे कथं यतीनां निवासः ? इत्याह-अभिहितयतनाकारिणामितिनिशीथोक्तयतनासावधानानां संयतानां किं विकारहेतुभिरित्यर्थः ॥९॥
ननु एवं यतनासावधानानां चैत्यवासेऽपि को दोषः ? इत्यतः आह
- प्रव्रज्यापरिपन्थिनं ननु धनस्वीकारमाहुर्जिनाः ॥१०॥ व्याख्या-"प्रव्रज्या०" ननु-निश्चितं तीर्थंकराः धनस्वीकारं-द्रव्यस्याङ्गीकारं प्रव्रज्यापरिपन्थिनमाहुः ॥ कोऽर्थः ? दीक्षाशत्रुभूतं कथयन्ति स्म । क्व धनसङ्ग्रहः ? क्व दीक्षेतिद्वारम् । तु पुनः सर्वारम्भपरिग्रह-सकलपापसहितानां गृहिणाम् । परिग्रहम् अतिमहासावयंअतिशयमहासपापं आचक्षते-कथयन्ति । तेन गृहस्थपरिग्रहः सर्वथा यतीनां नोचित इति द्वारम् । चैत्यस्वीकरणे तु माठपत्यमेव स्यात् । यदा यतीनां जिनगृहस्य स्वीकारस्तदा मठाधिपत्यमेव भवेत् । कथम्भूतं माठपत्यम् गर्हितम्-प्रकर्षेण निन्दितम् । यद्वा इति हेतोर्मुक्त्यार्थिनां पुंसाम् इति ममता युक्ता न-द्रव्यादिषु ममत्वं युक्तं नेत्यर्थः । कथम्भूता ममता ? व्रतवैरिणी चारित्रशत्रुभूता ॥१०॥ . तत्र दशद्वाराणां मध्ये षड् द्वाराणि निषेध्य अवशिष्टद्वारचतुष्टयं निषेधयितुमाह श्लोक चतुष्टयेन
भवति नियतमत्रासंयमः स्याद् विभूषा ॥११॥ गृही नियतगच्छभाक् जिनगृहेऽधिकारो यतेः ॥१२॥ निर्वाहार्थिनमुज्झितं गुणलवैरज्ञातशीलान्वयम् ॥१३॥
दुष्प्रापा गुरुकर्मसञ्चयवतां सद्धर्मबुद्धिर्नृणाम् ॥१४॥ व्याख्या-अत्र श्लोके सप्तमं द्वारं गब्दिकाद्यासनं निषिध्यते । अत्र गब्दिकाद्यासने विभूषा स्यात्-शोभा भवेत् । न केवलं शोभा, असंयमश्च भवति । कोऽर्थः ? जीवरक्षाऽभावश्च भवति नियतं-सर्वदा गब्दिकाद्यासने कथं शोभा भवेत् ? तत्राह-"नृपतिककुदं" एतदिति, यतः एतदासनं नृपतिककुदं-राज्यचिह्नमिति । तर्हि शोभाऽप्यभीष्टैवेत्याह-लोकहासश्चेति गब्दिकाद्यासने भिक्षोः केवलं शोभैव न भवति किन्तु लोकोपहासश्च भवति–'अहो ! भिक्षोपजीविनो मुण्डिता अपि एवंविधेष्वासनेषूपविशन्ति' । इह सङ्गः लोकविदितः गब्दिकादौ परिग्रहः, उच्चैः-अतिशयेन सातशीलत्वं-सुखलोलुपता, इति हेतोर्मुमुक्षोः मोक्षाभिलाषिणः पुरुषस्य गब्दिकाद्यासनं सङ्गतं न-युक्तं नेत्यर्थः । इति सप्तमं द्वारम् ॥११॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org