________________
१६८
श्री सङ्घपट्टकः
Mall
प्रथमं तावत् भोजनद्वारं निषेध्य जिनगृहनिवासं निषेधयितुमाह
गायद् गन्धर्वनृत्यत् पणरमणिरणद् वेणुगुञ्जन्मृदङ्ग ॥७॥ व्याख्या-"गायद् गन्धर्व०" खलु इति निश्चये अर्हन्तमतज्ञाः-जिनशास्त्रनिपुणाः सन्तः जिनगृहे न वसन्ति-न सततमवतिष्ठन्ते । कुतः ? विकारहेतुत्वात् । किंविशिष्टाः सन्तः ? सन्तः, काभ्यः ? देवद्रव्योपभोगध्रुवमठपतिताऽऽशातनाभ्यः देवद्रव्यस्य-जिननैवेद्यादेः उपभोगः, सततं शयनं, भोजनादिकरणे उपभोगः, ध्रुवं-निश्चयं मठपतिता-मठाधिपत्यं, तथा भगवदशातना:-जिनानां चतुरशीतिराशातनाः, एतेभ्यः बिभ्यन्तः । कथम्भूते जिनगृहे ? 'गायद् गन्धर्वे' त्यादि, गायन्तः गन्धर्वाः-प्रधानगायनाः यत् नृत्यन्त्यः पणरमण्यो-वेश्या यत्र, रणन्तोमधुरं ध्वनन्तो वेणवो-वंशाः यत्र, गुञ्जन्तो-गम्भीरं स्वनन्तो मृदङ्गा प्रेवन्त्यो-लम्बमाना: पुष्पस्रजः-पुष्पमाला यत्र, उद्यत-सर्वतः प्रसरत् आमोदद्वारेण मृगमदः-कस्तूरिका यत्र, लसन्तः-पट्टांशुकमयत्वाद्दीप्यमाना उल्लोचानि-वितानानि यत्र, महाधनवसनभूषणाङ्गरागादिभूषितशरीरत्वात् शोभमाना जनौघा:-श्रावकसमूहा यत्र, तस्मिन् ॥७॥ वसत्यक्षमाद्वारं निरसितुं श्लोकद्वयेनाह
साक्षाज्जिनैर्गणधरैश्च निषेवितोक्तां ॥८॥
चित्रोत्सर्गापवादे यदिह शिवपुरीदूतभूते निशीथे ॥९॥ व्याख्या-साक्षा० सकर्णः-सश्रवणः कः पुमान् परगृहे-गृहस्थगृहे वसति-निवासं विद्वेष्टि। अकर्णः पुमान् कौँ विना सिद्धान्तोक्तामपि परगृहवसतिम्-अनाकर्ण्यन् निषेधेदपि । यः पुनः सकर्णः-श्रवणः स परगृहवसतिं यतीनामनुमोदयत्येव, न तु द्वेष्टि । किं कुर्वन् ? मुनिपुङ्गवानां यतिश्रेष्ठानाम् अनगारपदं जानन्-न विद्यते अगारो यस्येति जानन् । अथवा किं विशिष्टां वसतिं ? शय्यातरोक्ति मिति, शय्या वसतिराख्याता यतिभ्यो दानतया, तरति भवाम्भोधिं यया अनगारपदं शास्त्रे हि यतिवाचकत्वेन प्रतिपदं श्रूयते । ननु स्वगृह एव किमिति यतयो न वसति ? तत्राह-मुनिपुङ्गवानां निःसङ्गता-स्वजनादिराहित्यम् अग्रिमपदंमुख्यस्थानम् । किंविशिष्टा निःसङ्गता ? साक्षात्-प्रत्यक्षं जिनैः-तीर्थकृद्भिः निषेविताउपभुक्ता, स्वमुखेन उक्ता च कथिता, न केवलं जिनैर्गणधरैश्च-गौतमप्रभृतिभिः यतीनां स्वगृहं नास्त्येव, अत: परगृहवसतिरेव श्रेयसीत्यर्थः ॥८॥ __व्याख्या-'चित्रोत्सर्गा०' सर्वत्र-सर्वस्मिन् वसति अधिकारे अगारधाम्नि-गृहस्थगृह एव यतीनां निवासो न्ययामि, कोऽर्थः ? व्यवस्थापितः, न तु क्वापि-कस्मिन्नपि ग्रन्थे, चैत्येजिनगृहे निवासो निरूपितः । किं कृत्वा ? प्रागुक्त्वा-प्रथमं निशीथे भूरिभेदाः-बहुभेदाः वस गे: उक्त्वा । किं विशिष्टे निशीथे ? चित्रोत्सर्गापवादे । चित्रौ-नानाविधौ बहुप्रकारौ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org