________________
विभाग-३, लघुवृत्तिः
१६७ विषयिभिः? संक्लिष्टद्विष्टमूढप्रखलजडजनाम्नायरक्तैः । कोऽर्थः ? समानधर्मजनोपतापकारिमत्सरि-हेयोपादेयविमर्शशून्यप्रकर्षपिशुनः दुर्बुद्धिचतुर्विधसङ्घः, तस्याम्नायः-शिष्यप्रशिष्यादिसन्तानः, तत्र रक्ताः-प्रीतिमन्तः, तैः । पुनः कथम्भूतैः ? साधुवेषैः-सन्मुनिचिह्नधारिभिः कथम्भूते जैनेन्द्रमार्गे ? 'प्रोत्सर्प'दित्यादि प्रोज्जम्भमाणो यो भस्मराशिनामा क्रूरग्रहः, तस्य सखामित्रम्, असंयतपूजाख्यं रिपुविजयपुरःसरम् आज्ञैश्वर्यं वर्द्धमानम् अतत्त्वे तत्त्वप्रतिपद्यमानरूपं यद् दशमाश्चर्यं तस्य साम्राज्येन-प्राचुर्येण पुष्यन् = प्रादुर्भवन् मिथ्यात्वं, तदेव ध्वांत-तमिस्रं तेन व्याप्ते । अन्योऽपि मार्गो यद्यन्धकारावृतो भवति तदोच्छन्नतां यात्येव ॥३-४॥ ___ इदानी योग्यस्य श्रोतुः पुरतो धुर्त्तकल्पिते पथि दशभिरैस्तत्र निरुपितं धर्म प्रतिपादयन् तस्य धर्मस्य कर्मनिर्मूलने सामर्थ्यमसंभावयन्नाह
यत्रौदेशिकभोजनं जिनगृहे वासो वसत्यक्षमा...॥५॥ व्याख्या-“यत्रौ०" यस्मिन्मार्गे औद्देशिकभोजनं, कोऽर्थः ? यतीन् मनसि कृत्वा निष्पादितं, जिनगृहे वासः-अर्हद्भवने सर्वदा निवासः, वसत्यक्षमा-गृहस्थगृहे वासं प्रति मात्सर्यम्, अर्थ- गृहस्थचैत्यसदनेषु स्वीकारः-द्रव्यश्रावकजिनगृहेषु अङ्गीकारः, अप्रेक्षिताद्यासन-स्वचक्षुषा अदृष्ट-मासनम्, सावद्याचरितादर:-सपापैर्यदाचरितं तस्यादरः, श्रुतपथावज्ञा-सिद्धान्तमार्गस्याऽनादरः, गुणिद्वेषधी:-यतिषु द्वेषबुद्धिः, इति दशद्वाराणि । एतैर्दशद्वारैः प्ररूपितो धर्मः । अत्र-असाधुकल्पिते पथि कर्महरश्चेद् भवेत्-कर्मक्षयकारी भवेत् तदा अब्धौ-समुद्रे मेरुस्तरेत् । यदा मेरूः समुद्रे तरति तदा एतस्माद् धर्मात् मोक्षो भवतीत्यर्थः ॥५॥ .. · साम्प्रतमेतेषामेव दशद्वाराणां यथाक्रमं प्रत्याख्याने चिकिर्षुः प्रथमं तावज्जीवोपमर्ददोषदृष्ट्या औदेशिकभोजनद्वारं निषेद्धमाह
षट्कायान् उपमद्य निर्दयमृषीनाधाय यत् साधितं...॥६॥ ____ व्याख्या-षट्कायानुपम० । नामेति संभावनायाम्, इह-प्रवचने सघृणो-दयालुः कः तद् भोजनं भोक्तुमिच्छति ? अपितु न कोऽपि-इत्यर्थः । किं कुर्वन् ? सङ्घादिनिमित्तमेतन्निष्पन्नमिति जानन् । किं तद्भोजनं यत् षट्कायान्-षड्विधजीवनिकायान् उपमद्य-हत्वा निर्दयं यथा स्यात्, एवम् ऋषीन्-यतीन् आदाय-मनसि कृत्वा यत् साधितं निष्पादितं यद् भोजनम् असकृद्-वारं वारं शास्त्रेषु प्रतिषिध्यते-निवार्यते निशीथादिग्रन्थेषु यस्य निषेधो वर्तते, तद् भोजनं निस्त्रिंशताधायि निष्करुणताकारकम् । पुनः यद् भोजनं पण्डिताः गोमांसाधुपमम् आहुः गोमांसादिसदृशं कथयन्ति मूलादि यद् भोजनं भुक्त्वा यतिरधो याति-नरकं गच्छति तद् भोजनं प्राज्ञः कोऽपि न भोक्तुमिच्छति-इत्यर्थः ॥६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org