________________
१६६
श्रीउपदेशभणनयोग्यं श्रोतारं निरूपयितुमाह
कल्याणाभिनिवेशवानिति गुणग्राहीति मिथ्यापथः...॥२॥
व्याख्या- कल्याणाभि० - श्रोतॄणां चतुर्दशगुणाः, श्रोतृशब्दाः सर्वेऽप्यत्र हेत्वर्थाः । अथ श्लोकान्वयः - भो श्रोतः ! मया ग्रन्थकर्त्रा त्वमुच्यसे - कथ्यसे कथमिति ? कल्याणाभिनिवेशवानिति, कोऽर्थः शुभरूपाग्रहवान् शोभनस्य रूपस्य आग्रहो विद्यते अस्येति स तथा । पुनः कथमिति ? गुणग्राहीति गुणग्रहीतुं शीलमस्येति गुणग्राही । पुनः कथमिति ? मिथ्यापथप्रत्यर्थीति यथाछन्दः प्ररूपितोत्सूत्रमार्गस्तस्य विरोधी, पुनः कथमिति ? विनीत इति ऋजुस्वभाव इति, अर्थाद् गुर्वादिषु । पुनः कथमिति अशठ इति अधूर्त्त इति । पुनः कथमिति ? औचित्यकारीति-उचितस्य भाव औचित्यं तत् कर्तुं शीलमस्येति । पुनः कथमिति ? दाक्षिण्यीति दाक्षिण्ययुक्तः । पुन, कथमिति ? दमीतिजितेन्द्रियः, पुनः कथमिति ? नीतिभृदिति-नीतिं बिभर्त्ति नीतिभृत् - सदाचारपरायण इत्यर्थः पुनः कथमिति ? स्थैर्यीतिस्थैर्यगुणयुक्तः स्थिरः इत्यर्थः । पुनः कथमिति ? धैर्यीति - धीर इत्यर्थः । पुनः कथमिति ? सद्धर्मार्थीति-सतां धर्मः सद्धर्मः तस्यार्थः, सोऽस्यास्तीति शोभनधर्मगवेषकः । पुनः कथमिति ? विवेकवानिति-युक्तायुक्तविचारचतुरः इत्यर्थः । पुनः कथमिति ? सुधीरिति प्राज्ञ इत्यर्थः ॥२॥
इदानीं युग्मश्लोकयो-र्व्याख्यानमारभ्यते
श्री सङ्घट्टकः
इह किल कलिकालव्यालवक्त्रान्तराल...॥३॥
प्रोत्सर्प्पद् भस्मराशिग्रहसखदशमाश्चर्यसाम्राज्यपुष्य...॥४॥
व्याख्या - इह० ॥ प्रो० ॥ "किलेति" प्रसिद्धिः इह जगति विषयिभिः स्रक्चन्दनवनितादिसेविभिः अभितः समन्तात् । सोयं पन्थाः अप्रार्थि - प्रार्थितः - ख्यापितः । कथम्भूतः पन्थाः ? जिनोक्तिप्रत्यर्थी - जैनशास्त्रविरोधी, कस्मिन् सति ? प्राणिवर्गे जीवसमूहे जैनेन्द्रमार्गे - जिनशासने विरलतां तुच्छतां याति सति कथम्भूते प्राणिवर्गे ? कलिकालव्याल - वक्त्रान्तरालस्थितिजुषि । कलिकाल एव व्यालः- सर्पस्तस्य वक्त्रं तस्यान्तरालं - मध्यं तत्र स्थितिः - स्थानं, तत् जुषते सेवते यः तस्मिन् । पुनः कथम्भूते प्राणिवर्गे ? गततत्त्वप्रीतिनीतिप्रचारे । गतौ-नष्टौ तत्त्वत्प्रीतिनीतिप्रचारौ यस्य तस्मिन् इदानीं प्राणिवर्गे तत्त्वप्रीतिर्नास्ति । नीतेः प्रचारो व्यवहारश्च नास्तीत्यर्थः । पुनः कथम्भूते ? प्रसरदनवबोधे - प्रादुर्भवत् सम्यक् - सिद्धान्तापरिज्ञाने, कोऽर्थः ? सिद्धांतार्थसम्यग्ज्ञानरहिते । पुनः कथम्भूते ? प्रस्फुरत् कापथौघस्थगितसुगतिसर्गे उन्मीलन्तः - प्रकटीभवन्तः ये कुमार्गाः कुत्सितमार्गाः ते स्थगितः - तिरस्कृतो रुद्धःअपवर्गलक्षणायाः सुगते : सर्गो - निष्पत्तिर्यस्य तस्मिन् । कथम्भूतैः साधुवेषैः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org