________________
विभाग-३, लघुवृत्तिः कविचक्रवर्तिश्रीजिनवल्लभसूरिविरचितः पण्डितलक्ष्मीसेनविहितया स्फुटार्थाभिधया
लघुवृत्त्या सनाथः ।
श्रीसङ्घपट्टकः इन्दीवरप्रभमनिंदितकांतिशाति-- धामाचितं सुरवरैः किल वासवाद्यैः ॥ श्रीमज्जिनेशचरणं तरणाय सद्यः सर्वे जना नमत किं कुरुतान्यचिन्ताम् ॥१॥ गम्भीरार्थगतेलसत्पदरते: श्रीसंघपट्टाभिध,ग्रन्थस्यास्य यथामति प्रकुरुते टीकां स्फुटार्थाभिधाम् । लक्ष्मीसेनसुधीः सुधीरनिवहप्रीत्यै जिनेशप्रभोः
पादाब्जार्चनलब्धसन्मतिरति श्रीमान् हमीरात्मजः ॥२॥ तत्र तावदाद्यश्लोकार्थविवेचनमारभ्यते.... वन्हिज्वालावलीढं कुपथमथनधीर्मातुरस्तोकलोक ॥१॥
व्याख्या-'वह्नि'रिति-तं देवं-पार्श्वनाथं वयं स्तुमः-प्रणमामः । तं कं ? यो देवः इति जगादेवउक्तवानिव इति, किं ? प्राज्ञैः-पण्डितैः सद्यः-तत्क्षणादेव कुमार्गस्खलनं कार्यकर्त्तव्यं, सिद्धान्तविरुद्धमतनिराकरणं कर्तव्यमित्यर्थः । किं कृत्वा ? स्वस्य आत्मनः विधुरमपि प्रपद्य । अपि सम्भावने कोऽर्थः ? कुमार्गस्खलनाद् यदि आत्मनो विधुरमपि किञ्चिद् भवति तथापि इति । किं कुर्वन् उक्तवान् ? कमठमुनितपः उच्चैः-अतिशयेन दुष्टं प्रकटयन्प्रकटीकुर्वन् । कोऽर्थः ? कमठनामतापसस्तावदेकः कश्चित्तपस्वी पञ्चाग्निनाम तपः कुवन् पार्श्वनाथेनावलोकितः, तस्य तत् तपो भगवतां दुष्टं कृतमित्यर्थः ॥ किं कृत्वा ? अखिललोकस्याग्रे ज्वलत्काष्ठमध्यात्सर्प सन्दर्य, न केवलं अखिललोकस्याग्रे मातुर्वामादेव्याश्चाग्रे वामादेवी भगवन्माता, तस्या अपि पुरतः इत्यर्थः किं विशिष्टं नागम् ? "अग्निज्वालावलीढम्" अग्निशिखाकवलितम्-अर्द्धदग्धमित्यर्थः कथम्भूतो यः परमेश्वरः ? कुमार्गछेदनबुद्धियुक्तः । पुनः कथम्भूतः ? कारुण्यामृताब्धिः-कृपापीयूषसागरः ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org