________________
विभाग - ३, लघुवृत्तिः
१८१
सर्वत्र योग्यतानुसारेण विनयादिप्रयोक्तृत्वं, गाम्भीर्यं - अलक्षहर्षादिविकारत्वं, धैर्यं - विपत्सु अपि अविखिन्नत्वं चेतसोऽवैक्लव्यं, स्थैर्यं विचार्य करणीयकारित्वम्, औदार्यंविनयादिनाऽध्यापनवितरणम्, आर्यचर्या सत्पुरुषक्रमप्रवृत्तिता, विनयः - अभ्युत्थानादिना गुरुषु प्रतिपत्तिः, नयो-लोकलोकोत्तराविरुद्धवर्तित्वं, दया- दुःस्थादिदर्शना ( दा ) दन्ति (करणत्वं ) इति दाक्ष्यं - धर्मक्रियासु नालस्यं, दाक्षिण्यं - सरलचित्तता, ततो द्वन्द्वसमासः, एभिर्गुणैः पुण्याः पवित्राः । ईदृशाः साधवो वन्दनीया इत्यर्थः ॥३७॥
सांप्रतं प्रकरणकारः प्रकरणं समाप्नुवन्- इष्टदेवताव्याजेनावसानमङ्गलं, स चायं चक्रबन्धेन स्वनामधेयमाविर्विभावयितुमाह
बिभ्राजिष्णुमगर्वमस्मरमनासादं श्रुतोल्लङ्घने ॥३८॥
व्याख्या-अहं जिनं वन्दे-तीर्थङ्करं नमस्करोमि । किम्भूतम् ? बिभ्राजिष्णुम् - अत्यन्तं विराजमानम् । पुनः किम्भूतम् ? अगर्वं - गर्वरहितं । पुनः किम्भूतम् ? अस्मरं - जितकन्दर्पं । पुनः किम्भूतम् ? अनासादम् - अवसन्नताशून्यम् । पुनः किम्भूतम् ? श्रुतोल्लङ्घने सद्ज्ञानमणि शास्त्रोल्लङ्घने. केवलज्ञानसूर्यं । पुनःकथम्भूतम् ? वरवपुः श्रीचन्द्रिकाभेश्वरं श्रेष्ठशरीरकार्तिककौमुदीनक्षत्रनाथं, पुनः किम्भूतम् ? वर्ण्यस्तुत्यं, कथम् ? अनेकधा - बहुधा, कै: ? असुरनरैः-दैत्यमनुजैः, न केवलदैत्यमनुष्यैः शक्रेण च - इन्द्रेण च । पुनः कथम्भूतम् ? एनच्छिदं-पापछेत्तारं । पुनः कथम्भूतम् ? विदुषां पण्डितानां दम्भारिंपाषण्डशत्रुं, पुनः कथम्भूतम् ? सदा-सर्वदा अनेकान्तरङ्गप्रदं, केन ? सुवचसा - मधुरगिरा सदसन्नित्यादिरूपतया अनेकान्तरङ्गप्रदातारम् । अत्र श्लोके सयत्नेन चक्रबन्ध उद्भावनीयः ॥३८॥ चक्रमिदमासन्नम् ॥ जिनपतिमतदुर्गे कालतः साधुवेषैः ॥३९॥
व्याख्या- ' जिनपतिमतदुर्गे० ' अधुना इदानीं तैर्विषयिभिः इयं स्वगच्छस्थिति: अप्राथि विस्तारिता । कस्मै ? स्वार्थसिद्ध्यै - निजकार्यनिष्पत्तये, केवलं स्ववशजनजडानां श्रृङ्खलेव आत्माऽऽयत्ती कृता ये मूर्खजनाः तेषां बन्धनाय श्रृङ्खलेव - निगड इव । कस्मिन् सति ? साधुवेषैः- धूर्तैः जिनपतिमतदुर्गे- अर्हच्छासनप्राकारे अभिभूते सति, अर्हच्छासनमेव दुर्गं प्राकारः “कोट” इति भाषया तस्मिन् विषयिभिः - कामिभि: उपद्रुते सति यदा भगवच्छासनमेव दुर्गं प्राकारः धूर्तै: उपद्रुतं तदा तैः धूर्तैः इयं गच्छस्थितिः निजगच्छमुद्रा विस्तारि तेत्यर्थः । कुतः अभिभूते सति ? कालतः - :- दुःषमाकालदोषात् । कैः ? भस्मकम्लेच्छसैन्यैः, यथा म्लेच्छसैन्यं कस्मिंश्चिदपि दुर्गे स्वभुजबलेन गृहीते द्रव्यार्थं तदन्तर्वर्त्तिनागरिकलोकबन्धनाय श्रृङ्खला प्रसारयन्ति च तथा लिङ्गिनः स्वकार्यार्थं मूर्खजनबन्धनाय गच्छस्थिति प्रसारितवन्त इत्यर्थः ॥३९॥
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org