________________
१८२
संप्रत्यप्रतिमे कुसङ्घवपुषि प्रोज्जृम्भिते भस्मक ॥४०॥
व्याख्या-'संप्रत्यप्रतिमे० ' ॥ इत्थम् - अमुना प्रकारेण लोकैः वयं कदर्थ्यामहेउपहस्यामहे । कया ? सदागमस्य कथयापि - शुद्धसिद्धान्तधर्मस्य देशनाविचारमात्रेणापि । किं कृत्वा ? एकीभूयएकमतं कृत्वा । कथम्भूतै र्लोकैः ? तदाज्ञापरैः - मोहराजाज्ञापरैः । कस्मिन् सति ? मोहराजकटके प्रौढिं जग्मुषि सति, कोऽर्थः ? मिथ्याज्ञानराजसैन्ये प्रौढतां याति सति । न केवलं मोहराजकटकै प्रौढिं जग्मुषि सति प्रागुक्तकुसङ्गशरीरे प्रोज्जृम्भिते सति - अभ्युद्य सति । पुनः कस्मिन् सति ? दुरन्तदशमाश्चर्यम् - असंयतपूजालक्षणम्, तस्मिन् विस्फूर्जति सति । कुङ्घवपुषि । किम्भूते ? संप्रति अधुना अप्रतिमे असदृशे कथम्भूते दशमाश्चर्ये ? भस्मकम्लेच्छातुच्छबले-भस्मराशितुरुष्काधिपतिसैन्यैः - भस्मको भस्मराशिग्रहः, स एवार्हच्छासनरतानामेकबाधाविधायित्वात् म्लेच्छाः - तुरुष्कास्तेषां सैन्यैः । यथा कश्चिन्महाराजाधिराजो म्लेच्छामहासामन्तैर्भूमण्डलं साधयति तथा अयमपि मोहराजा भस्मकादिभिर्जिनशासनमतिलङ्घयतीत्यर्थः ॥४०॥
Jain Education International
श्री सङ्घपट्टकः
वृत्तिकार-प्रशस्तिः ।
क्व जिनवल्लभसूरिसरस्वती, क्व च शिशोर्मम वाग्विभवोदयः । शुकवचोवदिमां सुजनाः खलु, श्रवणयोः कुतुकात् प्रकरिष्यथ ॥१॥ श्रीवीरदास इति वीरजिनेश्वरस्य पादाब्जपूजनपरायणचित्तवृत्तिः । श्रीमानभूदमलकीर्तिवितानकेन, येनावृतं जगदिदं करुणात्मकेन ॥२॥ तस्यात्मजोऽभवदनन्तगुणाः समग्रसम्यक्त्वसंग्रहविवर्द्धितपुण्यराशिः । श्रीमन् हमीर इति धीरतरः शरीरः, वाक् कर्महद्भिरनिशं जिनपूजनाय ॥३॥ तत्पुत्रोऽतिपवित्रकर्मनिरतः सद्विद्यया सर्वतः, ख्यातः षोडशहायनोऽप्यरचयत् टीकां स्फुटार्थाभिधाम् । लक्ष्मीसेन इति प्रसिद्धमहिमा देवान् गुरूनर्चयन्, जीयाज्जीवदयापरः परपरीतापाऽर्तिहन्ता वरः ॥४॥ "अथ समर्थना
विमले श्रावणमासे, वर्षे त्रि-महिषु - चन्द्र - (१५१३ ) संगुणिते । कृतवान् लक्ष्मीसेनः, -टीकां श्रीसङ्गपटस्य ॥५॥ ग्रंथांक ||५०१ ॥ ॥ इति श्रीलक्ष्मीसेनकृता श्रीसङ्घपट्टकटीका सम्पूर्णा ॥
For Personal & Private Use Only
www.jainelibrary.org