Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 204
________________ विभाग-३, लघुवृत्तिः १७७ क्रियाविशेषणं, सावहेलं अज्ञानिव, यथा मार्गाभिज्ञा मार्गमुपदिशन्त उपहस्यन्ते लोकेन, तथैतेऽपि तेन । एवं प्रस्तुतमुपमानं योजयित्वा प्रस्तुतमुपमेयमिदानी योज्यते, कष्टमेतत्-'यत् नृणां' सत्पथेच्छुपुरुषाणां नष्टदृशाम्-अतिमुग्धतया सत्पथकुपथविभागानभिज्ञानात्, अदृशांसम्यग्ज्ञानदर्शनविकलानां जात्यन्धः-सिद्धान्तरहस्यलेशानभिज्ञः सर्वथा अगीतार्थः, सोऽपि गीतार्थसंवासादेः कथञ्चिन्मोक्षपथकथनप्रवीणः स्यात्तत्राह-वैदेशिको गर्हिताचारत्वाद् गीतार्थमुनिपुङ्गवसङ्गमात्रवर्जितः एष चाधुनिकदुस्सङ्घप्रवरो निशङ्कं निःश्रेयसपथप्रत्यर्थिमार्गकथनदीक्षितोऽयं यथाछन्दशिरोमणिः कश्चिदाचार्यो मन्तव्यः । कान्तारे-भवमहाटव्यां प्रदिशति अभीप्सितपुराध्वानं-मुक्तिमार्गम् उत्कन्धरोदर्शिताहङ्कारविकारः, तथा च सोऽगीतार्थः उत्सूत्रभाषको मिथ्यादृष्टिः कथञ्चिदपि सत्पथं मोक्षमार्गं न वेत्ति, नाप्यन्येन गीतार्थेन प्रतिपादितोऽपि प्रत्येति इति कष्टम्, एतत्कष्टतरं त्विति पूर्ववत्, सोऽपि प्रागभिहितो यथाच्छन्दाचार्यः सुदृशः-सम्यग्ज्ञानदर्शनयुजः सन्मार्गगान्-ज्ञानदर्शचारित्रलक्षणमुक्तिपथप्रवृत्तान् तद्विदो-मुक्तिमार्गविज्ञान् धार्मिकान् सुविहितसाधून् यत् हसति सावज्ञमज्ञानिव, यथा-किममी अगीतार्था मूर्खशिरोमणयः सिद्धान्तरहस्यं जानन्ति ?, अहमेव सकलश्रुतपारावारंपारदृश्वा, ततो यमहं ब्रवीमि स मुक्तिमार्ग इति । किमित्येवमुपहसतीत्यत आहतन्महाकष्टमित्युपमानोपमेययोस्तुल्यतया योजना । अत्र च मुग्धजनपुरतो निरङ्कुशं स्वकल्पितं चैत्यवासादिकमुत्सूत्रपथं प्रथयद्विधिविषयपारतन्त्र्यप्ररूपणानिपुणान्, सुगुरुसम्प्रदायानुवर्तिनः सुविहितानसूययोपहसन् सम्प्रति वर्तमानः कुसङ्घाचार्यवर्गोऽनया भङ्ग्या कविना प्रतिपादित इति वृत्तार्थः ॥२९॥ साम्प्रतं श्रुतपथावज्ञाद्वारमुपसञ्जिहीर्षुः शुद्धजिनमार्गस्य दुष्टोपचितसमुदितकारणकलापेन सम्प्रति दुर्लभत्वं प्रतिपादयन्नाह सैषा हुण्डावसपिण्यनुसमयहसद्भव्यभावानुभावा ॥३०॥ व्याख्या-'सैषा हुण्डा' ॥ एवं अमुना प्रकारेण अनुकूलं-प्रतिसमयं दुष्टेषु-क्रूरेषु पुष्टेषु सत्सु जैनमार्गो दुर्लभः-अर्हत्पथो दुष्प्राप्यः, यदा तु क्रूराः पुष्टास्तदा जैनमार्गो दुर्लभो जात इत्यर्थः । एवं कथं ? सैषा हुण्डानाम्नी अवप्पिणी-कालविशेषः । कथम्भूता-अवसप्पिणी ? अनुसमयं हसद्भव्यभावानुभावा, अनुसमयं-प्रतिसमयं प्रतिक्षणं ह्रसन्-हीयमानः भव्यजनानां शुभभावस्यानुभावः-प्रभावो यस्यां सा । अयं त्रिंशत् उग्रग्रहश्च । जिनसिद्धान्तोक्ताष्टाशीतिग्रहमध्यात् त्रिंशतः पूरणो भस्मराशिः, कथम्भूतो भस्मराशिः ? ख-ख-नखमितिवर्षस्थितिः “पश्चानुपूर्व्या अंकरचना ज्ञातव्या" । खं-शून्यं, तत्पश्चात् पुनः खं-शून्यं, तत् पश्चान्नखं-विंशतेरंकः एतावत् (२०००) स्थितिः । अन्त्यदशममाश्चर्यं च असंयतपूजाऽनाचारप्रतिपादकमाश्चर्यं च तत्समा दुष्षमा च तैरेवावसप्पिणीभस्मराशि Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262