Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 199
________________ १७२ _ श्री सङ्घपट्टकः. कुपथप्रवृताः एव सन्ति किन्तु एतत् कृते, कोऽर्थः ? जिनमार्गकृते जिनमार्गनिमित्तं असूयन्ति च-ईर्ष्या कुर्वन्ति च । किं कृत्वा ? श्रुतस्य मूर्ध्निशास्त्रमस्तके पदं-चरणं कृत्वा-विधायेत्यर्थः किंविशिष्टा अमी ? दृष्टोरुदोषा अपि-साक्षादवलोकितकुपथदोषा अपि अदृष्टदोषा हि विवेकिनोऽपि कुपथान्न निवर्तितुं समीहन्ते किं पुनः अन्येऽपि दृष्टदोषाः ते मूर्खा अपि कुपथान्ननिवर्तन्त एवेति श्लोकार्थः ॥१७॥ सिद्धान्ते हि रजन्यां जिनस्नात्रं पापपङ्के निमज्जनाय प्रवदन्ति इत्यत आह ____ इष्टावाप्तितुष्टविटनटभटचेटकपेटकाकुलम् ॥१८॥ ___ व्याख्या-'इष्टावाप्ति०' जिन मज्जन-जिनस्नानम् अविधिना-सिद्धान्तोक्तविधिवैपरीत्येन मूढजनेन विहितः सन् अघपङ्के-पापकर्दमे निमज्जनमेव जनयति, कोऽर्थः ? सिद्धान्तोक्तप्रकारेण यदि देवस्नात्रं न विधीयते तदा स्नात्रादपि नरकपतनमेव भवतीत्यर्थः । कथभूतं स्नात्रम् ? इष्टावाप्ति तुष्टविटनटभटचेटकपेटकाकुलम्, इष्टाया:-प्रियायाः स्नात्रदर्शनव्याजेनागताया अवाप्तिः-मिलनं, तया तुष्टाः विटा: 'निःशङ्कमत्राद्य नः सुरतलीला प्रवर्तिष्यते' इति धिया मुदिता विटाः-वेश्यापतयः, नटाः-नर्तकाः, भटाः-शस्त्रादिकलाजीविनः, चेटका:-मासादि नियमिता वृत्ति ग्राहिणः, एतेषां पेटकः-समूहः, तेन आकुलं-क्षुभितम्, पुनः कथम्भूतं स्नात्रं ? निधुवनविधिनिबद्धदोहदनरनारी- निकरसंकुलं-निधुवनं-सुरतं तदर्थं निबद्धो दोहदः-अभिलाषो यैस्तैर्नरनारीनिकरैः-समूहै: संकुलं-व्याप्तं । कथंभूतं स्नात्रं ? रागद्वेषमत्सरेणूंघनं-कस्यचित् परवर्णिनी प्रति रागः स्नेहः, स्वप्रेयसीमन्येन सह संगच्छमानां पश्यतस्तज्जिघांसया द्वेषः, मत्सरश्च-स्ववल्लभामन्येन सह लपन्तीम् विलोक्यतः पुरुषस्य, असहिष्णुता-ईर्ष्या, ताभिर्घनं-सान्द्रम्, एतावता सकलविकारसामग्रीपरिपूरितमूर्खजनविहितस्नात्रादपि नरके पतनमेव भवतीत्यर्थः ॥१८॥ न केवलं स्नात्रमेव नरकजनकं किन्तु अविधिकृतं व्रताद्यपीत्याह जिनमतविमुखविहितमहिताय न मज्जनमेव केवलम् ॥१९॥ व्याख्या-'जिनमत०' केवलं जिनमतविमुखविहितं-जिनशास्त्रविपरीतकृतं मज्जनमेव 'अहिताय' संसाराय न भवति किं तर्हि ? (किंतु) तपश्चरित्रदानाद्यपि अनशनादि सर्वविरतिः अपि शिवफलं-मुक्तिरूपफलं न जनयति । एतावता जिनशास्त्रविपरीतकृतं सर्वमेव निष्फलमेवेति श्लोकार्थः । हि-यतः कारणात् अविधिविधिक्रमात् सिद्धान्तानुक्तोक्तप्रकारेण, सिद्धान्ते यन्नोक्तं तेन प्रकारेण जिनाज्ञाऽपि-अर्हदागमोक्तानुष्ठानमपि अशुभशुभायअकल्याणसंपत्तये जायते । 'कि'मित्याक्षेपे वाक्यभेदे वा, 'पुन 'रिति हेतुप्रकारेण अहितहेतुःसंसारबन्धनहेतुः विडम्बनैवलोकोपहासास्पदमेव न प्रसार्यते न विस्तार्यते ? अपि तु विस्तार्यत एवेत्यर्थः ॥१९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262