Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 197
________________ १७० श्री सङ्घपट्टकः सावद्याचरितादराख्यमष्टमं द्वारं निरूपयन्नाह व्याख्या-'गृही नियतगच्छ० ' गतानुगतिकैः-गड्डरिकाप्रवाहरूपैः अनगारिणां-यतीनाम् असंस्तुतम्-अनुचितम्, अदः-एतत् कथं प्रस्तुतं-प्रारब्धम् । एतत् किं ? गृही-श्रावको नियतगच्छभाग् भवति, कोऽर्थः ? आत्मसदृशो गच्छो येषाम् तेषामेव समुदायभजनेन गुणदोषादिकं विचारयति अन्ययतेः मुनेः जिनगृहे अधिकारः एतदपि विरुद्धमेव, अपरं च आरम्भिभिः-गृहिभिः साधुषु-यतिषु यथा तथा, कोऽर्थः ? येनैव प्रकारेण तेनैव अशुद्धमपि अशनादि-भक्तपानादि प्रदेयं वितरणीयम् । एतदपि विरुद्धमेव । अपरं च व्रतादिविधिवारणंसर्वविरत्यादिविधेारणनिषेधः । एतदपि विरुद्धम् । सुविहितान्तिके-सान्तिके-सन्मुनिसमिपे कथं प्रारब्धमित्यर्थः ॥ अष्टमं द्वारम् ॥१२॥ नवमं द्वारं निषेधयितुमाह व्याख्या-निर्वा० जनाः-लोकाः यत् ईदृशं यतिं देवेभ्योऽपि-जिनेभ्योऽपि अधिकं यथा स्यात् तथा अर्चयन्ति-पूजयन्ति तत् महतः-प्रबलस्य मोहस्य-अज्ञानस्य जृम्भितं-लीलायितं । कीदृशं यति ? निर्वाहार्थिनं, कथं ? निर्वाहो-जीविका भवतीत्ययमेवार्थः प्रयोजनं यस्य तम् । पुनः कीदृशं ? गुणलवैः-गुणलेशैरपि उज्झितं-त्यक्तम् । पुनः कथम्भूतम् ? अज्ञातशीलान्वयं अविदिताचारकुलं पुनः कथम्भूतं गुरुणा-आचार्येण स्वार्थाय-प्रयोजनाय मुण्डीकृतं-दीक्षां नीतम् । कथम्भूतं गुरुणा ? तादृग्वंशजतद्गुणेन-तादृशिष्यवंशजातेन तद्गुणेन-शिष्यसदृशगुणेन । किंविशिष्टा जनाः ? विख्यातगुणान्वया अपि-प्रसिद्धगुणवंशजाता अपि । अकुलीनाः कुलीनं पूजयन्ति तदा पूजयन्तु, (किन्तु) कुलीना अपि अकुलीनं पूजयन्ति, इति मोहप्राबल्यम् । पुनः किंविशिष्टाः ? लग्नोग्रगच्छग्रहा:-चेतसि निविष्टो यः उग्रगच्छप्रतिबन्धः तद् युक्ता इत्यर्थः । द्वारम् ९ ॥१३॥ 'गुणद्वेषधी' इतिद्वारं निषेधयितुमाह व्याख्या-दुष्प्रापा० ॥ गुरुकर्मसञ्चयवतां-गरिष्टसंसारबन्धहेतुकर्मयुक्तानां प्राणिनां सद्धर्मबुद्धिर्दुष्प्रापा, कोऽर्थः ? दुःखेन प्राप्यते तस्यां सद्धर्मबुद्धौ जातायामपि उत्पन्नायामपि शुभगुरुर्दुर्लभः यो गुरुरिष्टतरं किञ्चिदुपदिशति । सोऽपि शुभगुरुः पुण्येन यदि प्राप्यते तथापि अमी जनाः स्वहितं कर्तुं नालम्-आत्मनो हितं कर्तुं न समर्थः । किं विशिष्टा जनाः ? गच्छस्थितिव्याहताः-'युष्मत्कुलादृतोऽयं गच्छस्तत एनं गच्छं त्यक्त्वा भवद्भिर्नान्यपार्श्वे श्रवणसम्यक्त्वव्रतप्रतिपत्त्यादिकं विधेयम्' इति गृहस्थस्य यतिविहिता व्यवस्था, तथा गच्छस्थित्या व्याहताः-वशीकृता इत्यर्थः, अतो हेतोः किं ब्रूमः-किं भणामः ? इह-संसारे, किम् आश्रयेमहि-निषेवेमहि ? किम् आराध्येमहिकस्याराधनां कुर्मः ? किं वा कुर्महेविदध्मः, इति दशमं द्वारम् ॥१४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262