Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 195
________________ १६८ श्री सङ्घपट्टकः Mall प्रथमं तावत् भोजनद्वारं निषेध्य जिनगृहनिवासं निषेधयितुमाह गायद् गन्धर्वनृत्यत् पणरमणिरणद् वेणुगुञ्जन्मृदङ्ग ॥७॥ व्याख्या-"गायद् गन्धर्व०" खलु इति निश्चये अर्हन्तमतज्ञाः-जिनशास्त्रनिपुणाः सन्तः जिनगृहे न वसन्ति-न सततमवतिष्ठन्ते । कुतः ? विकारहेतुत्वात् । किंविशिष्टाः सन्तः ? सन्तः, काभ्यः ? देवद्रव्योपभोगध्रुवमठपतिताऽऽशातनाभ्यः देवद्रव्यस्य-जिननैवेद्यादेः उपभोगः, सततं शयनं, भोजनादिकरणे उपभोगः, ध्रुवं-निश्चयं मठपतिता-मठाधिपत्यं, तथा भगवदशातना:-जिनानां चतुरशीतिराशातनाः, एतेभ्यः बिभ्यन्तः । कथम्भूते जिनगृहे ? 'गायद् गन्धर्वे' त्यादि, गायन्तः गन्धर्वाः-प्रधानगायनाः यत् नृत्यन्त्यः पणरमण्यो-वेश्या यत्र, रणन्तोमधुरं ध्वनन्तो वेणवो-वंशाः यत्र, गुञ्जन्तो-गम्भीरं स्वनन्तो मृदङ्गा प्रेवन्त्यो-लम्बमाना: पुष्पस्रजः-पुष्पमाला यत्र, उद्यत-सर्वतः प्रसरत् आमोदद्वारेण मृगमदः-कस्तूरिका यत्र, लसन्तः-पट्टांशुकमयत्वाद्दीप्यमाना उल्लोचानि-वितानानि यत्र, महाधनवसनभूषणाङ्गरागादिभूषितशरीरत्वात् शोभमाना जनौघा:-श्रावकसमूहा यत्र, तस्मिन् ॥७॥ वसत्यक्षमाद्वारं निरसितुं श्लोकद्वयेनाह साक्षाज्जिनैर्गणधरैश्च निषेवितोक्तां ॥८॥ चित्रोत्सर्गापवादे यदिह शिवपुरीदूतभूते निशीथे ॥९॥ व्याख्या-साक्षा० सकर्णः-सश्रवणः कः पुमान् परगृहे-गृहस्थगृहे वसति-निवासं विद्वेष्टि। अकर्णः पुमान् कौँ विना सिद्धान्तोक्तामपि परगृहवसतिम्-अनाकर्ण्यन् निषेधेदपि । यः पुनः सकर्णः-श्रवणः स परगृहवसतिं यतीनामनुमोदयत्येव, न तु द्वेष्टि । किं कुर्वन् ? मुनिपुङ्गवानां यतिश्रेष्ठानाम् अनगारपदं जानन्-न विद्यते अगारो यस्येति जानन् । अथवा किं विशिष्टां वसतिं ? शय्यातरोक्ति मिति, शय्या वसतिराख्याता यतिभ्यो दानतया, तरति भवाम्भोधिं यया अनगारपदं शास्त्रे हि यतिवाचकत्वेन प्रतिपदं श्रूयते । ननु स्वगृह एव किमिति यतयो न वसति ? तत्राह-मुनिपुङ्गवानां निःसङ्गता-स्वजनादिराहित्यम् अग्रिमपदंमुख्यस्थानम् । किंविशिष्टा निःसङ्गता ? साक्षात्-प्रत्यक्षं जिनैः-तीर्थकृद्भिः निषेविताउपभुक्ता, स्वमुखेन उक्ता च कथिता, न केवलं जिनैर्गणधरैश्च-गौतमप्रभृतिभिः यतीनां स्वगृहं नास्त्येव, अत: परगृहवसतिरेव श्रेयसीत्यर्थः ॥८॥ __व्याख्या-'चित्रोत्सर्गा०' सर्वत्र-सर्वस्मिन् वसति अधिकारे अगारधाम्नि-गृहस्थगृह एव यतीनां निवासो न्ययामि, कोऽर्थः ? व्यवस्थापितः, न तु क्वापि-कस्मिन्नपि ग्रन्थे, चैत्येजिनगृहे निवासो निरूपितः । किं कृत्वा ? प्रागुक्त्वा-प्रथमं निशीथे भूरिभेदाः-बहुभेदाः वस गे: उक्त्वा । किं विशिष्टे निशीथे ? चित्रोत्सर्गापवादे । चित्रौ-नानाविधौ बहुप्रकारौ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262