Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 193
________________ १६६ श्रीउपदेशभणनयोग्यं श्रोतारं निरूपयितुमाह कल्याणाभिनिवेशवानिति गुणग्राहीति मिथ्यापथः...॥२॥ व्याख्या- कल्याणाभि० - श्रोतॄणां चतुर्दशगुणाः, श्रोतृशब्दाः सर्वेऽप्यत्र हेत्वर्थाः । अथ श्लोकान्वयः - भो श्रोतः ! मया ग्रन्थकर्त्रा त्वमुच्यसे - कथ्यसे कथमिति ? कल्याणाभिनिवेशवानिति, कोऽर्थः शुभरूपाग्रहवान् शोभनस्य रूपस्य आग्रहो विद्यते अस्येति स तथा । पुनः कथमिति ? गुणग्राहीति गुणग्रहीतुं शीलमस्येति गुणग्राही । पुनः कथमिति ? मिथ्यापथप्रत्यर्थीति यथाछन्दः प्ररूपितोत्सूत्रमार्गस्तस्य विरोधी, पुनः कथमिति ? विनीत इति ऋजुस्वभाव इति, अर्थाद् गुर्वादिषु । पुनः कथमिति अशठ इति अधूर्त्त इति । पुनः कथमिति ? औचित्यकारीति-उचितस्य भाव औचित्यं तत् कर्तुं शीलमस्येति । पुनः कथमिति ? दाक्षिण्यीति दाक्षिण्ययुक्तः । पुन, कथमिति ? दमीतिजितेन्द्रियः, पुनः कथमिति ? नीतिभृदिति-नीतिं बिभर्त्ति नीतिभृत् - सदाचारपरायण इत्यर्थः पुनः कथमिति ? स्थैर्यीतिस्थैर्यगुणयुक्तः स्थिरः इत्यर्थः । पुनः कथमिति ? धैर्यीति - धीर इत्यर्थः । पुनः कथमिति ? सद्धर्मार्थीति-सतां धर्मः सद्धर्मः तस्यार्थः, सोऽस्यास्तीति शोभनधर्मगवेषकः । पुनः कथमिति ? विवेकवानिति-युक्तायुक्तविचारचतुरः इत्यर्थः । पुनः कथमिति ? सुधीरिति प्राज्ञ इत्यर्थः ॥२॥ इदानीं युग्मश्लोकयो-र्व्याख्यानमारभ्यते श्री सङ्घट्टकः इह किल कलिकालव्यालवक्त्रान्तराल...॥३॥ प्रोत्सर्प्पद् भस्मराशिग्रहसखदशमाश्चर्यसाम्राज्यपुष्य...॥४॥ व्याख्या - इह० ॥ प्रो० ॥ "किलेति" प्रसिद्धिः इह जगति विषयिभिः स्रक्चन्दनवनितादिसेविभिः अभितः समन्तात् । सोयं पन्थाः अप्रार्थि - प्रार्थितः - ख्यापितः । कथम्भूतः पन्थाः ? जिनोक्तिप्रत्यर्थी - जैनशास्त्रविरोधी, कस्मिन् सति ? प्राणिवर्गे जीवसमूहे जैनेन्द्रमार्गे - जिनशासने विरलतां तुच्छतां याति सति कथम्भूते प्राणिवर्गे ? कलिकालव्याल - वक्त्रान्तरालस्थितिजुषि । कलिकाल एव व्यालः- सर्पस्तस्य वक्त्रं तस्यान्तरालं - मध्यं तत्र स्थितिः - स्थानं, तत् जुषते सेवते यः तस्मिन् । पुनः कथम्भूते प्राणिवर्गे ? गततत्त्वप्रीतिनीतिप्रचारे । गतौ-नष्टौ तत्त्वत्प्रीतिनीतिप्रचारौ यस्य तस्मिन् इदानीं प्राणिवर्गे तत्त्वप्रीतिर्नास्ति । नीतेः प्रचारो व्यवहारश्च नास्तीत्यर्थः । पुनः कथम्भूते ? प्रसरदनवबोधे - प्रादुर्भवत् सम्यक् - सिद्धान्तापरिज्ञाने, कोऽर्थः ? सिद्धांतार्थसम्यग्ज्ञानरहिते । पुनः कथम्भूते ? प्रस्फुरत् कापथौघस्थगितसुगतिसर्गे उन्मीलन्तः - प्रकटीभवन्तः ये कुमार्गाः कुत्सितमार्गाः ते स्थगितः - तिरस्कृतो रुद्धःअपवर्गलक्षणायाः सुगते : सर्गो - निष्पत्तिर्यस्य तस्मिन् । कथम्भूतैः साधुवेषैः Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262