Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 166
________________ १३९ विभाग-१, बृहद्वृत्तिः रसस्यंदिन्या वाचा तथा भगवाननेकान्तवादं व्युत्पादयति यथा विद्वांसः शेषदर्शनत्यागेन तत्रैव रज्यन्त इत्यर्थः चक्रमिदं चक्रबन्धः ॥ माघसमं यादृश्या वर्णन्यासपरिपाट्या माघकाव्यस्थचक्र तथा माघकाव्यमिदंशिशुपालवध इत्येवं रूपो नामनिबन्धः प्रादुर्भवति ॥ इहापि तादृश्यैवेति माघसमानार्थः ॥ ॥ तथाहि ॥ प्रथमांवलयाकाराणि सान्तराणि त्रीणिरेखायुगलानि व्यवस्थाप्यन्ते ॥ तेषां च त्रीण्यन्तरालानि भवन्ति ॥ ततः सर्वांतरनाभिर्वृत्ताकारा संस्थाप्यते ॥ तस्याश्चषट्सुदिक्षु द्वाभ्यां द्वाभ्यां रेखाभ्यां षड्का अंत्यवलयांत्यारेखां यावत् ॥ एवमेतत् षडरकं चक्रं भवति ॥ तत एकस्य कस्यचिदरकस्यान्तर्गतान्त्यवलयान्तरालेवृतस्य प्रथमाक्षरं लिख्यते ततोऽधस्ताद्वितीयमक्षरं ॥ तस्याधस्तान् मध्यवलयान्तरे तृतीयं ॥ ततोधस्ताच्चतुर्थं पञ्चमे ततो धस्तादाद्यवलयान्तराले षष्ठम् ॥ ततोधस्तात् सप्तमाष्टमनवमानि ॥ ततोनाभी दशमम् ॥ तत प्रथमारकसन्मुखारकादावेकादशद्वादशत्रयोदशानि ॥ ततस्तदुपरिष्टादाद्यवलयान्तरालेचतुर्दशम् ॥ ततस्तदुपरिपञ्चदशषोडशे ॥ ततस्तदुपरिमध्यवलयान्तरासप्तदशम् ॥ तदुपरिष्टादष्टादशम् ॥ ततउपरिष्टादंत्यवलयान्तरालेएकोनवीशम् ॥ एवं वृत्तस्य प्रथमपादोरकद्वये समाप्यते ॥ एवमनेनक्रमेणद्वितीयतृतीयपादावप्यवशिष्टारकचतुष्टय इति ॥ नाभेरक्षरं त्रिरावर्त्यते ॥ ततस्तृतीयपादस्यात्याक्षरं चतुर्थपादाद्याक्षरतयापुनरावारकशून्यान्त्यवलयान्तरे चतुर्थपादस्यद्वितीयतृतीयेक्षरे व्यवस्थाप्येते । तदनन्तरंप्रथमारकान्तः स्ववृत्तप्रथमाक्षरं चतुर्थपादास्यतुर्याक्षरतयावर्त्यतत्पुरतोरकशून्यान्तवलयान्तरे पञ्चमषष्टे अक्षरे लिख्यते ॥ अनेन क्रमेण तावन्नेयं यावत्तृतीयपादस्यान्त्याक्षरं तच्चतृतीयवारमावृत्तंचतुर्थपादस्यान्त्याक्षरतया ज्ञातव्यम् ॥ इह च नामबन्धमत पुनरावृत्तवर्णानुस्वारा यथासंभवं तद्वर्गपञ्चमतयाग्रिमवर्णेषु योज्याः ॥ अत्र जिनवल्लभेन गणिनेदं चक्रे इतिनामबन्धः ॥ स्थापना चेयम् ॥ एतच्चैवं चक्राक्षरन्यासस्वरुपं व्यक्तमपिमुग्धबोधनाय किञ्चिदर्शितमितिवृत्तार्थः ॥३८॥ एवं चानेन प्रकरणेन सप्रपञ्च मिथ्यापथस्वरुपे प्रकटिते प्रभुश्रीजिनवल्लभसूरयः किमित्येवं प्रकष्टवृत्त्या लिङ्गिनो भवद्भिर्दुषिता इति केनाप्युपालब्धास्तस्य च प्रतिवचनं तस्मै वक्ष्यमाणवृत्तद्वयेनोपन्यस्तम् अतस्तदपि प्रकृतानुपातित्वादत्रैव प्रकरणान्तरे निबद्धम् ॥ तदिदानी व्याख्यायत इत्याह ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262