Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 171
________________ विभाग-२ : अवचूरिः पू.आ.श्रीजिनभद्रसूरिशाखान्तर्गतसाधुकीर्तिगणिनिर्मितावचूरीसमलङ्कृतः श्रीसङ्घपट्टकः श्रीमत्पार्श्वजिनं नत्वा, सर्वसम्पत्तिदायकम् । सङ्घपट्टकशास्त्रस्या-ऽक्षरार्थं वितनोम्यहम् ॥१॥ इह हि पुरा दशशताशीतिवर्षे श्रीमदणहिल्लपत्तने दुर्लभराजसभायां चैत्यवासिनो विनिर्जित्य प्राप्तखरतरबिरुदः श्रीजिनेश्वरसूरिः, तत्पट्टे जिनचन्द्रसूरिः, तद्विनेयः श्रीस्तम्भनकपार्श्वप्राकट्यकृद् नवाङ्गीवृत्तिविधाता च श्रीअभयदेवसूरिः, तच्छिष्यः श्रीजिनवल्लभसूरिः शिथिलाचारनिरासाय परोपकारकरणाय च श्रीसङ्घस्य पट्टकरूपं श्रीसंघराज्यपट्टकशास्त्रं चकार, तस्याद्य काव्यम् वह्निज्वालावलीढं कुपथमथनधीर्मातुरस्तोकलोक,स्याग्रे संदर्य नागं कमठमुनितपः स्पष्टयन् दुष्टमुच्चैः। यः कारुण्यामृताब्धिविधुरमपि किल स्वस्य सद्यःप्रपद्य, प्राज्ञैः कार्यं कुमार्गस्खलनमिति जगादेव देवं स्तुमस्तम् ॥१॥ व्याख्या-"वह्निः" तं देवं स्तुमः । तमिति के ? यो भगवान् मातरने अस्तोकलोकस्यसमस्तलोकस्य अग्रे नागं-सर्प संदर्य-दर्शयित्वा प्राज्ञैः-पण्डितैः 'कुमार्गस्खलनं कार्यम्' इति जगादेव-इति कथयामासेव । कथम्भूतं नागं ? वह्निज्वालावलीढम्-अग्निज्वालाव्याप्तम् । कथम्भूतो भगवान् ? कुपथस्य-कुमार्गस्य मथने धी:-बुद्धिर्यस्य । पुनर्भगवान् किं कुर्वन् ? उच्चैः-अत्यर्थं कमठमुनितपः दुष्टं स्पष्टयन्-प्रकटीकुर्वन् । कथम्भूतो भगवान् ? कारुण्यमृताब्धिः-कारुण्यस्यामृतस्य अब्धिः-समुद्रः । किं कृत्वा कुमार्गस्खलनं कार्यं ? तत्राह'किल' इति सत्ये स्वस्य-आत्मनः सद्यः-शीघ्रं विधुरमपि-कष्टमपि प्रपद्य-अङ्गीकृत्य । इति प्रथमकाव्यार्थः ॥१॥ कल्याणाभिनिवेशवानिति गुणग्राहीति मिथ्यापथ,प्रत्यर्थीति विनीत इत्यशठ इत्यौचित्यकारीति च । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262