Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 175
________________ १४८ श्री सङ्घपट्टकः अभिहिता-प्रोक्ता या यतना-परिच्छदादानरूपा तत्कारिणाम् । एवमुत्सर्गेण अपवादेनापि गृहस्थगृह एव वसनीयं न पुनः क्वापि चैत्ये निवासोऽनुमतः ॥९॥ प्रव्रज्याप्रतिपन्थिनं ननु धनस्वीकारमाहुर्जिनाः, सर्वारम्भिपरिग्रहं त्वतिमहासावद्यमाचख्यते । चैत्यस्वीकरणे तु गर्हिततमं स्यान्माठपत्यं यते, रित्येवं व्रतवैरिणीति ममता युक्ता न मुक्त्यर्थिनाम् ॥१०॥ व्याख्या-प्रव० ॥ ननु-निश्चितं जिनाः-तीर्थकराः धनस्वीकारम्-अर्थाङ्गीकारं प्रव्रज्याप्रतिपन्थिनं-दीक्षाविरोधिनम् आहुः-कथयन्ति तु-पुनः सर्वारम्भिपरिग्रह, सर्वारम्भिणांगृहस्थानां परिग्रह-स्वीकारं ममैते गृहस्था इति, अतिमहासावद्यम्-अत्यन्तं महापापम् आचक्षते वदन्ति । तु-पुनः यते:-साधोः चैत्यस्वीकरणे-चैत्यममत्वे गर्हिततमम्-अत्यन्तगर्हणीयं माठपत्यं-मठपतित्वं स्यात् । इत्येवंप्रकारेण मुक्त्यर्थिनां-मुक्तेः प्रार्थकानां साधूनां ममता न युक्ता, कथम्भूता ममता ? व्रतवैरिणी, इति-अर्थ-गृहस्थचैत्यस्वीकारः । इति द्वारत्रयं व्याख्यातम् ॥१०॥ भवति नियतमत्रासंयमः स्याद्विभूषा, नृपतिककुदमेतल्लोकहासश्च भिक्षोः । स्फुटतर इह सङ्गः सातशीलत्वमुच्चै-रिति न खलु मुमुक्षोः सङ्गतं गब्दिकाऽदि ॥११॥ व्याख्या-भवति० ॥ अत्र-गब्दिकाद्यासने नियतं-निश्चितम् असंयमो भवति गब्दिकादीनां प्रतिलेखयितुमशक्यत्वात् । विभूषा-शोभा स्यात् महापुरुषसेवनीयत्वात् । एतद्आसनसेवनं नृपतिककुदं-राजचिह्नं च-पुनः भिक्षोः-साधोः लोकहासः स्यात्-'अहो ! मुण्डितोऽप्येवंविधासनेषु उपविशति' इह गब्दिआसने सङ्गः-परिग्रहः स्फुटतर:-प्रकटतरः उच्चैः-अत्यर्थं सातशीलत्वंसुखलम्पटत्वम् । इति हेतोः खलु-निश्चितं मुमुक्षोः-साधोः गब्दिकादि, आदिशब्दात् मसूरकसिंहासनादेः परिग्रहः, तत् न सङ्गतं-न युक्तम् । अप्रेक्षिताद्यासनद्वारं व्याख्यातम् ॥११॥ सावद्याचरितद्वारमाह गृही नियतगच्छभाग जिनगृहेऽधिकारो यतेः, प्रदेयमशनादि साधुषु यथा तथा-ऽरम्भिभिः । व्रतादिविधिवारणं सुविहितान्तिकेऽगारिणां, गतानुगतिकैरदः कथमसंस्तुतं प्रस्तुतम् ॥१२॥ व्याख्या-गृही० ॥ गृही-श्रावकः नियतगच्छभाक्, नियतं-निश्चितं स्वगच्छमेव भजतीति नियतगच्छभाक्, स्वगच्छं मुक्त्वाऽन्यत्र न गन्तव्यम्, यतेः-साधोः जिनगृहे-चैत्येऽधिकार: Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262