Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 188
________________ विभाग-२, अवचूरिः १६१ युक्ताः-न स्पृष्टाः । पुनः किम्भूताः ? न संक्लेशस्य-रौद्राध्यवसायस्य आवेशः-उत्कर्षों येषां ते न संक्लेशावेशाः । पुनर्न कदभिनिवेशाः, कत्-कुत्सितः अभिनिवेशः-कदाग्रहो येषां ते, तथा कपटप्रियाः-मायावल्लभा न पुनः किम्भूताः ? सूत्ररतयः सूत्रे रतिर्येषां ते सूत्ररतयःसिद्धान्तरुचयः ॥३६॥ संविग्नाः सोपदेशाः श्रुतनिकषविदः क्षेत्र कालाद्यपेक्ष्या,ऽनुष्ठानाः शुद्धमार्गप्रकटनपटवः प्रास्तमिथ्याप्रवादाः ।। वन्द्याः सत्साधवोऽस्मिन्नियम-शम-दमौचित्य-गाम्भीर्य-धैर्य, स्थैौदार्यचर्याविनय-नय-दया-दक्ष्य-दाक्षिण्यपुण्याः ॥३७॥ व्याख्या-संविग्नाः ॥ अस्मिन्-जिनशासने एवम्भूताः सत्साधवः-शोभनसाधवो वन्द्याः । किम्भूताः ? संविग्नाः-मोक्षाभिलाषुकाः । पुनः किम्भूताः ? सोपदेशाः, सह उपदेशेन-धर्मोपदेशेन वर्तन्ते ये ते सोपदेशाः । पुनः किम्भूताः ? श्रुतनिकषविदः-श्रुतमेवशास्त्रमेव निकषः-कषपट्टस्तद्विदः-आगमरहस्यनिपुणाः । पुनः किम्भूताः ? क्षेत्रकालाद्यपेक्ष्यानुष्ठानाः, क्षेत्रकालाद्यपेक्ष्यक्षेत्रकालाद्यनुसारि, आदि शब्दाच्छरीरबलादिग्रहः, अनुष्ठानंकर्तव्यता येषां ते द्रव्यक्षेत्रकालभावानपेक्ष्य, क्रियाकर्तार इति । पुनः किम्भूताः ? शुद्धमार्गप्रकटनपटवः, शुद्धमार्गस्य प्रकटने पटवः-सावधानाः । पुनः किम्भूताः ? प्रास्त:दूरीकृतः मिथ्याप्रवादो यैस्ते प्रास्तमिथ्याप्रवादाः । पुनः किम्भूताः ? नियम, नियम:अभिग्रहः, शमः-उपशमः, दमः-इन्द्रियजयः, औचित्यंयोग्यता, गाम्भीर्यम्-अलक्ष्यविकारत्वं, धैर्य-धीरत्वं, स्थैर्य-विमृष्टकारित्वम्, औदार्यम्-उदारत्वम् आर्यचर्या-सत्पुरुषप्रवृत्तिः, विनयः-अभ्युत्थानादिः, नयः-न्यायः, दया-कृपा, दक्ष्यं-धर्मक्रियाऽनालस्यं, दाक्षिण्यं-सरलता, एभिर्गुणैः पुण्या:-पवित्राः ॥३७॥ __ स्वनामगर्भितकाव्यमाह बिभ्राजिष्णुमगर्वमस्मरमनासादं श्रुतोल्लङ्घने, सज्ज्ञानधुमणि जिनं वरवपुःश्रीचन्द्रिकाभेश्वरम् । वन्दे वर्ण्यमनेकधाऽसुरनरैः शक्रेण चैनच्छिदम्, दम्भारिं विदुषां सदा सुवचसाऽनेकान्तरङ्गप्रदम् ॥३८॥ व्याख्या-बिभ्रा० ॥ जिनं-तीर्थंकरं वन्दे । किम्भूतं जिनं ? बिभ्राजिष्णुम्-अतिशयैः शोभायमानम् । पुनः अगर्वम्-अहङ्काररहितम् । पुनः अस्मरं-कन्दर्परहितम् । पुनः किम्भूतं ? श्रुतोल्लङ्घनेसिद्धान्ताज्ञाऽतिक्रमे अनाशादम्, आशां-मनोरथं ददातीति आशादः, न आशादोऽनाशादस्तम् । पुनः किम्भूतं ? सज्ज्ञानेन प्रधानकेवलज्ञानेन धुमणि-सूर्यम् । पुनः किम्भूतं ? वरा-प्रधाना वपुः श्री:-शरीरकान्तिः सैव चन्द्रिका-ज्योत्स्ना तया भेश्वरं-नक्षत्रनाथं चन्द्रम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262