Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 186
________________ विभाग-२, अवचूरिः १५९ शीलतपसोऽपि, कल्पितम्-आचरितं स्वबुद्ध्या दानं शीलं तपो येन तस्य, यद्यपि तपःप्रभृति मुक्त्यर्थं करोति तथापि न मोक्षः । पुनः कथम्भूतस्य ? एतत्क्रमस्थायिनः, एतस्य-कुसङ्घस्य यः क्रमः-परम्परा तत्र स्थायिनः । हरिणपक्षे एतस्य मृगस्य प्रहारार्थं सञ्जितः क्रमः-चरणस्तत्र स्थायिनः पादपतितस्येत्यर्थः ॥३३॥ इति द्वारदशकं व्याख्यातम् ॥ पुनरप्याह इत्थं मिथ्यापथकथनया तथ्ययाऽपीह कश्चित्मेदं ज्ञासीदनुचितमथो मा कुपत्कोऽपि यस्मात् । जैनभ्रान्त्या कुपथपतितान् प्रेक्ष्य →स्तत्प्रमोहा, पोहायेदं किमपि कृपया कल्पितं जल्पितं च ॥३४॥ व्याख्या-इत्यं० ॥ इत्थम्-अमुना प्रकारेण तथ्ययाऽपि-सत्ययाऽपि मिथ्यापथकथनया, मिथ्यापथस्य-हीनाचारिमार्गस्य कथना-प्रकटना तया, इह प्रवचने कश्चिज्जन्तुर्जिनशासनस्थः मा इदं ज्ञासीत्, यदिदं परदोषोद्धाटनम् अनुचितम्-अयोग्यम् । अथो-अथवा कोऽपिकश्चिदपि मा कुपत्-मा क्रुधत् यत् 'किमनेन रागद्वेषवाक्येने'-ति कोपं-द्वेषं मा करोतु यस्मात्कारणात् जैनभ्रान्त्याजैनमार्गभ्रमेण कुपथपतितान् कुपथे हीनाचारीप्ररूपिते पतितान् नन्-नरान् प्रेक्ष्य अथ तत्प्रमोहापोहाय, तेषां-जन्तूनां प्रमोहः-अज्ञानं तस्याऽपोहः-निराकरणं तस्मै, तन्मोहनिराकरणाय इदं-प्रत्यक्षं किमपि कियन्मानं कृपया-दयया 'अहो ! अमी वराका: कथं भविष्यन्ती ?' ति कृपया कल्पितंप्रोक्तं च-पुनर्जल्पितं-ग्रन्थरचनया प्रारब्धं न तु रागद्वेषाभ्यामिति ॥३४॥ तत्र कारणमाह प्रोद्भूतेऽनन्तकालात्कलिमलनिलये नामनेपथ्यतोऽर्हन्, मार्गभ्रान्तिं दधानेऽथ च तदभिमरे तत्त्वतोऽस्मिन् दुरध्वे । कारुण्याद् यः कुबोधं नृषु निरसिसिषुर्दोषसङ्ख्यां विवक्षे, दम्भोऽम्भोधेः प्रमित्सेत् स सकलगगनोल्लङ्घनं वा विधित्सेत् ॥३५॥ व्याख्या-प्रोद्भ० ॥ यः पुरुषः अस्मिन् दुरध्वे-दुष्टमार्गे हीनाचारिप्ररूपिते दोषसङ्ख्याम्इयत्तया दोषपरिमाणं विवक्षेत्-वक्तुमिच्छेत् स पुरुषः अम्भोधेः-समुद्रस्य अम्भः-जलं प्रमित्सेत्-प्रमातुमिच्छेत् वा-अथवा सकलगगनोल्लङ्घन-समस्ताकाशस्य पद्भ्यामुल्लङ्घनं विधित्सेत्-कर्तुमिच्छेत् । यथा समुद्रजलमानम् आकाशलङ्घनं कर्तुमशक्यं तथा हीनाचारिदोषसङ्ख्यां वक्तुं न पार्यत इति । कथम्भूतः ? यः कारुण्यात्-दयातो नृषु-नरेषु कुबोधंकुतत्त्वज्ञानं निरसिसिषुः-भक्तुमिच्छुः । कथम्भूते दुरध्वे ? अनन्तकालात्-अनन्तकालेन Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262