Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 185
________________ १५८ श्री सङ्घपट्टकः कृतदुषः-विहितदोषाः । पुनः किम्भूताः ? उद्यद्रुषः, उद्यन्-प्रकटीभवन् रुषः-रोषो येषां ते, एवम्भूता, गुणिषु द्वेषं वहन्त्येव ॥३१॥ देवीयत्युरुदोषिणः क्षतमहादोषानदेवीयति, सर्वज्ञीयति मूर्खमुख्यनिवहं तत्त्वज्ञमज्ञीयति । उन्मार्गीयति जैनमार्गमपथं सम्यग्पथीयत्यहो ?, मिथ्यात्वग्रहिलो जनः स्वमगुणाग्रण्यं कृतार्थीयति ॥३२॥ व्याख्या-देवी० ॥ 'अहो ?' इत्याश्चर्ये मिथ्यात्वग्रहिलो जनः-मिथ्यात्वेन गर्गीभूतो लोकः, एवं कुरुते, तबाह-उरुदोषिणः-प्रबलदोषयुक्तान् देवीयति-देवतया मन्यते । अथ क्षतमहादोषान्, क्षताः-(वि)नाशिता महादोषा यैस्ते तान् वीतरागान् श्रमत्वेन अदेवीयतिदेवतया नाङ्गीकरोति, पुनः मूर्खमुख्यनिवहं-मूर्खप्रधानसमूहं सर्वज्ञीयति-सर्वज्ञतया मन्यते, तत्त्वज्ञं-तत्त्वज्ञातारम् अज्ञीयति-अज्ञतया मन्यते । जैनमार्गमुन्मार्गीयति । पुनः अपथं-कुमार्ग सम्यक् पथयति-सुमार्गतया मन्यते । अगुणैरग्रण्यंनिर्गुणप्राधान्यं स्वम्-आत्मानं कृतार्थीयतिगुणवत्तया मन्यते ॥३२॥ सङ्घाकृतचैत्यकूटपतितस्यान्तस्तरां ताम्यत,स्तन्मुद्रादृढपाशबन्धनवतः शक्तस्य न स्पन्दितुम् । मुक्त्यै कल्पितदानशीलतपसोऽप्येतत्क्रमस्थायिनः, सङ्घव्याघ्रवशस्य जन्तुहरिणवातस्य मोक्षः कुतः ? ॥३३॥ व्याख्या-सङ्घत्रा० ॥ जन्तुहरिणवातस्य, जन्तवः-प्राणिनो भव्यास्त एव हरिणःमृगास्तेषां वातंसमूहस्तस्य-भव्यजनमृगसमूहस्य मोक्षः-मुक्तिः कथमपि तु न । कथम्भूतस्य जन्तुहरिणवातस्य ? सङ्घव्याघ्रवशस्य, सङ्घ-हीनाचारिसमुदायः, स एव व्याघ्रः-मृगारिस्तद्वशस्यवशीभूतस्य । यथा व्याघ्रवशस्य हरिणस्य मोक्षः-छुटनं न तथा कुसङ्घव्याघ्रवशस्य भव्यहरिणस्य मुक्तिगमनं न । कथम्भूतस्य जन्तुहरिणवातस्य ? सङ्घत्राकृतचैत्यकूटपतितस्य, सङ्घस्य-लिङ्गिसमुदायस्य दानाय कृतानि सङ्घत्राकृतानि यानि चैत्यानिजिनभवनानि श्रावकैनिर्माप्य लिङ्गिभ्यो दत्तानि, देये 'त्रा' प्रत्ययः, तान्येवचैत्यान्येव कूटः हरिणबन्धनयन्त्राणि तत्र पतितस्यान्यस्य मृगस्य कूटे पतितस्य मोक्षः कष्टेन । पुनः कथम्भूतस्य ? तराम्-अत्यर्थम् अन्तः-मध्यहृदये ताम्यतः-खेदं कुर्वतः ‘कदा छुटिष्येऽह'-मिति खिद्यमानस्य । पुनः कथम्भूतस्य ? तन्मुद्रादृढपाशबन्धनवतः, तस्य कुसङ्घस्य मुद्रा-मर्यादा 'अस्मच्चैत्य एव समागन्तव्य'-मिति, सैव दृढः-निबिडो यः पाशस्तस्य बन्धनं यस्य स तस्यान्यस्य हरिणस्य दवरिकादिनिर्मितग्रंथिविशेषपाशे पतितस्य मोक्षो नेति । पुनः किम्भूतस्य ? स्पन्दितुं-चलितुं न शक्तस्य-न समर्थस्य । पुनः किम्भूतस्य भव्यजन्तोः ? मुक्त्यै-मुक्त्यर्थं कल्पितदान Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262