________________
१५८
श्री सङ्घपट्टकः कृतदुषः-विहितदोषाः । पुनः किम्भूताः ? उद्यद्रुषः, उद्यन्-प्रकटीभवन् रुषः-रोषो येषां ते, एवम्भूता, गुणिषु द्वेषं वहन्त्येव ॥३१॥
देवीयत्युरुदोषिणः क्षतमहादोषानदेवीयति, सर्वज्ञीयति मूर्खमुख्यनिवहं तत्त्वज्ञमज्ञीयति । उन्मार्गीयति जैनमार्गमपथं सम्यग्पथीयत्यहो ?,
मिथ्यात्वग्रहिलो जनः स्वमगुणाग्रण्यं कृतार्थीयति ॥३२॥ व्याख्या-देवी० ॥ 'अहो ?' इत्याश्चर्ये मिथ्यात्वग्रहिलो जनः-मिथ्यात्वेन गर्गीभूतो लोकः, एवं कुरुते, तबाह-उरुदोषिणः-प्रबलदोषयुक्तान् देवीयति-देवतया मन्यते । अथ क्षतमहादोषान्, क्षताः-(वि)नाशिता महादोषा यैस्ते तान् वीतरागान् श्रमत्वेन अदेवीयतिदेवतया नाङ्गीकरोति, पुनः मूर्खमुख्यनिवहं-मूर्खप्रधानसमूहं सर्वज्ञीयति-सर्वज्ञतया मन्यते, तत्त्वज्ञं-तत्त्वज्ञातारम् अज्ञीयति-अज्ञतया मन्यते । जैनमार्गमुन्मार्गीयति । पुनः अपथं-कुमार्ग सम्यक् पथयति-सुमार्गतया मन्यते । अगुणैरग्रण्यंनिर्गुणप्राधान्यं स्वम्-आत्मानं कृतार्थीयतिगुणवत्तया मन्यते ॥३२॥
सङ्घाकृतचैत्यकूटपतितस्यान्तस्तरां ताम्यत,स्तन्मुद्रादृढपाशबन्धनवतः शक्तस्य न स्पन्दितुम् । मुक्त्यै कल्पितदानशीलतपसोऽप्येतत्क्रमस्थायिनः,
सङ्घव्याघ्रवशस्य जन्तुहरिणवातस्य मोक्षः कुतः ? ॥३३॥ व्याख्या-सङ्घत्रा० ॥ जन्तुहरिणवातस्य, जन्तवः-प्राणिनो भव्यास्त एव हरिणःमृगास्तेषां वातंसमूहस्तस्य-भव्यजनमृगसमूहस्य मोक्षः-मुक्तिः कथमपि तु न । कथम्भूतस्य जन्तुहरिणवातस्य ? सङ्घव्याघ्रवशस्य, सङ्घ-हीनाचारिसमुदायः, स एव व्याघ्रः-मृगारिस्तद्वशस्यवशीभूतस्य । यथा व्याघ्रवशस्य हरिणस्य मोक्षः-छुटनं न तथा कुसङ्घव्याघ्रवशस्य भव्यहरिणस्य मुक्तिगमनं न । कथम्भूतस्य जन्तुहरिणवातस्य ? सङ्घत्राकृतचैत्यकूटपतितस्य, सङ्घस्य-लिङ्गिसमुदायस्य दानाय कृतानि सङ्घत्राकृतानि यानि चैत्यानिजिनभवनानि श्रावकैनिर्माप्य लिङ्गिभ्यो दत्तानि, देये 'त्रा' प्रत्ययः, तान्येवचैत्यान्येव कूटः हरिणबन्धनयन्त्राणि तत्र पतितस्यान्यस्य मृगस्य कूटे पतितस्य मोक्षः कष्टेन । पुनः कथम्भूतस्य ? तराम्-अत्यर्थम् अन्तः-मध्यहृदये ताम्यतः-खेदं कुर्वतः ‘कदा छुटिष्येऽह'-मिति खिद्यमानस्य । पुनः कथम्भूतस्य ? तन्मुद्रादृढपाशबन्धनवतः, तस्य कुसङ्घस्य मुद्रा-मर्यादा 'अस्मच्चैत्य एव समागन्तव्य'-मिति, सैव दृढः-निबिडो यः पाशस्तस्य बन्धनं यस्य स तस्यान्यस्य हरिणस्य दवरिकादिनिर्मितग्रंथिविशेषपाशे पतितस्य मोक्षो नेति । पुनः किम्भूतस्य ? स्पन्दितुं-चलितुं न शक्तस्य-न समर्थस्य । पुनः किम्भूतस्य भव्यजन्तोः ? मुक्त्यै-मुक्त्यर्थं कल्पितदान
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org