________________
१५७
विभाग-२, अवचूरिः पुनः कथम्भूतान् ? तद्वाक्याननुवर्तिनः, तद्वाक्येजात्यन्धवाक्ये अननुवर्तिनः-न प्रवर्तकास्तान् । कथं हसति ? तत्राह-सावज़-साहङ्कारम् अज्ञानिवमूर्खानिव, यथा अज्ञा हसन्ति तथा सोऽपि हसति-अहो ! मद्वाक्ये न गच्छति । एतत्तु कष्टतरं यत्तस्य मार्गदर्शनं तत्तु कष्टम् ॥२९॥
सैषा हुण्डावसर्पिण्यनुसमयहसद्भव्यभावानुभावा,त्रिंशश्चोग्रग्रहोऽयं खखनखमितवर्षस्थिति स्मराशिः । अन्त्यं चाश्चर्यमेतज्जिनमतहतये तत्समा दुष्पमा चे,
त्येवं दुष्टेषु पुष्टेष्वनुकलमधुना दुर्लभो जैनमार्गः ॥३०॥ व्याख्या-सैषा० ॥ सा एषा-प्रत्यक्षा हुण्डावसर्पिणी-हुण्डसंस्थानेन सहिताऽवसर्पिणीएतत्कालः । कथम्भूता अनुसमयहूसद्भव्यभावानुभावा, अनुसमयं-प्रतिसमयं इसन्तःहीयमानाः भव्याः-प्रधानाः, भावाः-पदार्थास्तेषामनुभावः-प्रभावो यस्यां सा-अनुसमयहूसद्भव्यभावानुभावा । च-पुनः त्रिंशः-त्रिंशत्तमोऽयं भस्मराशिरुग्रग्रहः-उत्कटग्रहः । कथम्भूतः ? एकराशौ ख-ख-नखमितवर्षस्थितिः, खं खं-शून्यं शून्यं नखाः-विंशतिस्तन्मित( २०००) वर्षस्थितिः-अङ्कानां वक्रगत्या द्विसहस्रवर्षस्थितिः । च-पुनः एतत्-प्रत्यक्षम् अन्त्यमाश्चर्यम्-असंयतपूजालक्षणं तत्समापूर्वोक्तत्रिवैरितुल्या, दुष्षमाकालभेदः, जिनमतहतयेजिनमतहानिकरणाय, इत्येवं चतुर्पु दुष्टेषु-शत्रुषु अनुकंल-निरन्तरं पुष्टेषु सत्सु अधुना जैनमार्गो दुर्लभः । एकस्यापि वैरिणः पोषे साधुवृद्धिर्न कथं चतुः शत्रुपोषे जैनमार्गवृद्धिः ? ॥३०॥ अथ गुणिद्वेषधीद्वारं दर्शयति
सम्यग्मार्गपुषः प्रशान्तवपुषः प्रीतोल्लसच्चक्षुषः, ... श्रामण्यद्धिमुपेयुषः स्मयमुषः कन्दर्पकक्षप्लुषः ।
सिद्धान्ताध्वनि तस्थुषः शमयुषःसत्पूज्यतां जग्मुषः,
सत्साधून् विदुषः खलाः कृतदुषः क्षाम्यन्ति नोद्यद्रुषः ॥३१॥ व्याख्या-सम्यग् ॥ खला-दुर्जनाः चैत्यवासिनः सत्साधून-शोभनाननगारान् न क्षाम्यन्ति । कथम्भूतान् ? सम्यग्मार्गपुषः-शुद्धमार्गपोषकान् । पुनः किं विशिष्टान् ? प्रशान्तवपुषः-प्रशान्तस्वरूपशरीरान् । पुनः कथम्भूतान् ? प्रीते उल्लसन्ती चक्षुषी येषां ते तान् । पुनः किम्भूतान् ? श्रामण्यद्धिचारित्रसमृद्धिमुपेयुषः-प्राप्नुवन्तः । पुनः किम्भूतान् ? स्मयमुषः, स्मयम्-अहङ्कारं मुष्णन्तीति अहङ्कारतिरस्कारिणः पुनः किम्भूतान् ? कन्दर्पकक्षप्लुषः-कन्दर्प एव कक्ष-शुष्कतृणं तं प्लुषन्ति-दहन्ति ये ते । पुनः किम्भूतान् ? सिद्धान्ताध्वनि-सिद्धान्तमार्गे तस्थुषः-स्थितवन्तः । शमयुषः-उशपमयुक्तान् । पुनः किम्भूतान् ? सत्पूज्यतां-विवेकिपूज्यत्वं जग्मुषः-प्राप्तान् । पुनः विदुषः-दक्षान् । अथ कीदृशाः खलाः ?
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org