________________
१५६
श्री सङ्घपट्टकः, कथंभूतानां ? निरंतरमहामोहात्-निरन्तरमहामोहनीयकर्मणः सकाशात् अहम्मानिनां-अभिमानवतां पुनः किं स्वयमात्मना नष्टानां-भ्रष्टानां पुनः कथंभूतानां ? सदा अन्य नाशनकृतेऽन्यभ्रंशकराय बद्धोद्यमानां-कृतोद्यमानां स्वयं नष्टोऽन्यान्नाशयति इति अत एव तेषां वचो न श्रोतव्यमिति ॥२७॥
यत्किञ्चिद्वितथं यदप्यनुचितं यल्लोकलोकोत्तरोत्तीर्णं यद् भवहेतुरेव भविनां यच्छास्त्रबाधाकरम् । तत्तद्धर्म इति ब्रुवन्ति कुधियो मूढास्तदर्हन्मत,
भ्रान्त्या लान्ति च हा ! दुरन्तदशमाश्चर्यस्य विस्फूर्जितम् ॥२८॥ व्याख्या यत्किञ्चि० ॥ कुधियः-कुपण्डितास्तत्तत् वस्तुधर्मरूपतया ब्रुवन्ति, तत्किं ? यत् किं तत्राह-यत्किञ्चित् वितथम् अलीकं श्रेणिकराजरजोहरणवन्दनादि यदपि अनुचितम् अयोग्यं पित्राद्युद्देशेन यात्राकरणादि अथवा जिनमंदिरे लकुडक्रीडादि अयोग्य, यत् लोकलोकोत्तरोत्तीर्णलोकलोकोत्तरमार्गत उत्तीर्णं बाह्यं सूतकगृहे भिक्षाग्रहणादिरजस्वलापूजा, हीनजातिभ्यः परमेष्ठिमन्त्रपाठनं दीक्षणं जैनेन्द्रप्रतिमाकारणं च, तथा यद् भविनाभव्यानां भवहेतुः-संसारहेतुः । एवं निश्चयेन जिनमन्दिरे जलक्रीडादि यत् शास्त्रस्य बाधाकरसिद्धान्तविरुद्धम् आधाकर्मभोजनादि । अथ श्रावणाधिक्ये पर्युषणाया अशीतितमेऽह्नि विधानम्, इत्यादि धर्मतया प्ररूपयन्ति मूढाः-मूर्खास्तद् अर्हन्मतभ्रान्त्याभगवन्मतभ्रमेण लान्ति-स्वीकुर्वन्ति शुक्तिशकले रजतवत् । 'हा' इति खेदे दुरन्तदशमाश्चर्यस्य दुष्टासंयतपूजालक्षणस्य विस्फूर्जितं-विलसितं पश्यतेति ॥२८॥
कष्टं नष्टदिशां नृणां यददृशां जात्यन्धवैदेशिकः, कान्तारे प्रदिशत्यभीप्सितपुराध्वानं किलोत्कन्धरः । एतत्कष्टतरं तु सोऽपि सुदृशः सन्मार्गगांस्तद्विद,
स्तद्वाक्याननुवर्तिमो हसति यत्सावज्ञमज्ञानिव ॥२९॥ व्याख्या-कष्ट० ॥ यस्मात्कारणात् किलेति सत्येन नृणां-मनुष्याणां जात्यन्धवैदेशिकः, जात्याजन्मना अन्धः-नेत्रविकलः, स चासौ वैदेशिकः-विदेशोत्पन्नः । एवम्भूतः कश्चित् कान्तारे-अटव्याम् अभिप्सितपुराध्वानम्, अभीप्सितस्य-इष्टस्य पुरस्य अध्वानं-मार्गं प्रदिशति दर्शयति तत्कष्टम् । कथम्भूतानां नृणां ? नष्टदिशां-दिङ्मूढानाम् । पुनः कथम्भूताम् ? अदृशांदृष्टिविकलानामन्धानाम् कथम्भूतो जात्यन्धवैदेशिकः ? उत्कन्धरः-ऊर्वीकृतग्रीवः, यो मार्ग दर्शयति स ग्रीवामूर्वीकरोति । तु-पुनः एतत् कष्टतरम्-अतिशयेन कष्टं तदाह-सोऽपि जात्यन्ध वैदेशिकः यत्-यस्मात् सुदृशः-सुनेत्रान् पुरुषान् हसति तत्कष्टतरम् । कथम्भूतान् सुदृशः ? सन्मार्गगान्-शोभनमार्गगमनशीलान् । पुनः कथम्भूतान् ? तद्विदः-शोभनमार्गगमनज्ञातॄन्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org