________________
विभाग-२, अवचूरिः
१५५ इत्याधुद्धसोपहासवचसः, इत्यादिपूर्वोक्तविटादिप्रकारेण उद्धतानि-उत्कटानि सोपहासानिहास्यसहितानि वचांसि येषां ते, एवंविधाः स्युः-भवेयुः, हास्यं कुर्वन्तीत्यर्थः । अन्ये केचन तेषामाचारं श्रुत्वा अभिमुखाः-सन्मुखा वाऽपि श्रुतपथात्-सिद्धान्तमार्गात् वैमुख्यंपराङ्मुखत्वम् आतन्वतेभजन्ते । येषां हीनाचारिणां मिथ्योक्त्या-मिथ्याभाषणेन अहो ! अमी अन्यथावादिनोऽन्यथाकारिणः, इतिरूपेण सुदृशोऽपि-सम्यग्दृशोऽपि पुरुषाः मनःसन्देहदोलाचलं बिभ्रति-धारयन्ति, सन्देह एव दोला तया चलम्, 'इदं सत्यमिदं वासत्य'मिति सन्देहास्पदे मनः स्यात्, ननु-निश्चितं तेऽमी-चैत्यवासिनः ततः-तस्मात्सर्वथा जिनमतप्रत्यर्थिनः-जिनमतवैरिणः ॥२५॥
सर्वैरुत्कटकालकूटपटलैः सर्वैरपुण्योच्चयैः, सर्वव्यालकुलैः समस्तविधुराधिव्याधिदुष्टग्रहैः । नूनं क्रूरमकारि मानसममुं दुर्मार्गमासेदुषाम्,
दौरात्म्येन निजजुषां जिनपथं वाचैष सेत्यूचुषाम् अतः ॥२६॥ व्याख्या-सर्वैः ॥ अमुं-प्रसिद्ध चैत्यवासिविहितं दुर्मार्गम् आसेदुषां-सेव्यमानानां मानसं-चित्तं नूनं-निश्चितं क्रूरम् अकारि-कृतम् । कैः क्रूरं कृतम् ? तत्राह-सर्वैरुत्कटकालकूटपटलैः-अत्युग्रसद्योघातिविषसमूहैः, सर्वैः-समस्तैः अपुण्योच्चयैः-पापराशिभिः पुनः सर्वव्यालकुलैः-समस्ताशीविषसमूहैः । पुनः समस्तविधुराधिव्याधिदुष्टग्रहैः, सर्वं विधुरं-कष्टम्, आधिः-मानसी पीडा, व्याधिः-रोगः दुष्टग्रहास्तैः । एतैः पुद्गलैर्महादुष्टं तेषां मनः कृतम् । कथम्भूतानां तेषां ? दौरात्म्येन-दुष्टात्मत्वेन जिनपथ-जिनमार्ग निजध्नुषाम्-उच्छेत्तुकामानाम् । पुनःकिम्भूतानां ? वाचा-वाण्या 'एष यः स मार्गः' इत्यूचुषां-कथयितॄणां दुर्मार्गमपि सुमार्गतया प्ररूपकाणामिति ॥ 'अतः' इति भिन्नपदम्-अस्मात्कारणात् ॥२६॥ तत्र कारणमाह
दुर्भेदस्फुरदुग्रकुग्रहतमःस्तोमास्तधीचक्षुषाम, सिद्धान्तद्विषतां निरन्तरमहामोहादहम्मानिनाम् । नष्टानां स्वयमन्यनाशनकृते बद्धोद्यमानां सदा,
मिथ्याचारवतां वचांसि कुरुते कर्णे सकर्णः कथम् ॥२७॥ ___ व्याख्या-दुर्भेद० ॥ मिथ्याचारवतां मिथ्या-विपरीत आचारो येषां ते मिथ्याचारवन्तस्तेषां हीनाचारिणां वचांसि-वाक्यानि सकर्णो-विद्वान् कर्णे कथं-केन प्रकारेण कुरुते अपितु हीनाचारि धर्मोपदेशवाक्यमपि न श्रोतव्यं कथंभूतानां ? दुर्भेद० दुर्भेदो-दुरुच्छेदः स्फुरन्-दीप्त उग्र-उत्कटो यः कुग्रह:-कदाग्रहः स एव तमःस्तोमोऽधंकार-पटलं तेन अस्तं आच्छादितं धीचक्षु-ऑनलोचनं येषां ते । पुनः कथंभूतानां ? सिद्धांतद्विषतां-सिद्धांतवैरिणां पुनः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org