________________
१५४
श्री सङ्घपट्टकः षट्कृत्वस्त्रिविधं त्रिधेत्यनुदिनं प्रोच्यापि भञ्जन्ति ये,
तेषां तु क्व तपः क्व सत्यवचनं क्व ज्ञानिता क्व व्रतम् ? ॥२३॥ व्याख्या-सर्वा० ॥ सर्वारम्भपरिग्रहस्य-सकलसावधव्यापारधनधान्यादिसङ्ग्रहतत्परस्य गृहिणोऽपि-गृहस्थस्य एकाशनादि-एकवारमशनं यत्तत् एकाशनं तदादिर्यस्य तत् एकाशनादि, आदिशब्दात् निर्विकृतिकादि प्रत्याख्यातम् एकदा-पर्वादिदिवसे प्रत्याख्याय-कृत्वा कदाचिद् विस्मरणेन न रक्षितस्तस्य रक्षणं न कृतं चेद् भङ्गः स्यात्तदा हृदि तीव्रोऽनुताप:पश्चात्तापो भवेत्-'अहो ! मया मन्दभाग्येन प्रत्याख्यानं भग्नम्' । ये हीनाचारिणः षट्कृत्व:षड्वारान् त्रिवारंसन्ध्याप्रतिक्रमणे त्रिवार प्रातः प्रतिक्रमणे इति त्रिविधं, त्रिधा-मनोवाक्कायैःकरणकारणानुमतिवर्जनेनेति, अनुदिनं-निरन्तरं प्रोच्य-मुखे उच्चार्यापि भञ्जन्ति तेषां तपः क्व?, सत्यवचनं क्व ?, ज्ञानिता क्व ?, व्रतं क्व ? अपि तु न कथञ्चित् ॥२३॥
देवार्थव्ययतो यथारुचिकृते सर्वर्तुरम्ये मठे, नित्यस्थाः शुचिपट्टतूलशयनाः सद्गब्दिकाद्यासनाः । . . सारम्भाः सपरिग्रहाः सविषयाः सेाः सकाङ्क्षाः सदा,
साधुव्याजविटा अहो ! सितपटाः कष्टं चरन्ति व्रतम् ॥२४॥ व्याख्या-देवा० ॥ अहो ! इति आश्चर्ये सितपटा:-श्वेताम्बराः व्रतं कष्टं-दुःखतया चरन्तिसमाचरन्ति । किम्भूताः ? मठे-स्वस्थाने नित्यस्था:-नित्यवासिनः । कथम्भूते मठे ? देवार्थव्ययतः-देवद्रव्यव्ययाद् यथारुचिकृते-स्वेच्छया विरचिते, ते स्वेच्छाचारिणो देवद्रव्यं स्वस्थानेषु लगयन्ति । पुनः कथम्भूते ? सर्व रम्ये-अनेकजालिकागवाक्षादिकरणे षऋतुमनोहरे । पुनः किम्भूतास्ते ? शुचयः-पवित्रा याः पट्टतूल्यो-हंसरुतादिमयाः शय्याविशेषास्तत्र शयनाः । पुनः किम्भूताः ? सद्गब्दिकाद्यासना:-प्रधानगब्दिकाद्यासनाः, आदिशब्दान्मसूरकादिग्रहः । पुनःकिम्भूताः ? सारम्भाः-आरम्भसहिताः । पुनः किम्भूताः ? सपरिग्रहा:परिग्रहेण सहिताः, पुनः किम्भूताः ? सविषयाः विषयः पञ्चप्रकारस्तेन सहिताः । पुनः सेाः, सह ईर्ष्णया वर्तत इति सेाः । पुनः किम्भूताः ? सदा-निरन्तरं सकाङ्क्षाः, सह काङ्ख्याद्रव्यादिवाञ्छया वर्तन्ते ये ते सकाङ्क्षाः । पुनः साधुव्याजेनसाधुच्छलेन विटा:-लम्पटा इव, दुराचारदर्शनेन तेषां निन्दनम् ॥२४॥
इत्याद्युद्धतसोपहासवचसः स्युः प्रेक्ष्य लोकाः स्थितिम्, श्रुत्वाऽन्येऽभिमुखा अपि श्रुतपथाद् वैमुख्यमातन्वते । मिथ्योक्त्या सुदृशोऽपि बिभ्रति मनः सन्देहदोलाचलम्,
येषां ते ननु सर्वथा जिनपथप्रत्यर्थिनोऽमी ततः ॥२५॥ व्याख्या-इत्या० ॥ लोका:-परतीथिकादयः स्थिति-हीनाचारिसामाचारी प्रेक्ष्य-विलोक्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org