________________
विभाग-२, अवचूरिः
१५३ कथम्भूतः श्रद्धालुः ? छलित इव-व्यन्तराधिष्ठित इव ग्रथिल इव । छलनप्रकारमाहमुग्धमीनान्-मूर्खमत्स्यान् आक्रष्टुं-आकर्षितुं बडिशपिशितवत्-बडिशं-मत्स्यग्रहणाय लोहकण्टकं, तत्र पिशितं-मांसबोटकं तद्वत् जैनं बिम्ब-जिनप्रतिमां आदर्श्य-दर्शयित्वा, यथा मांसखण्डेन मत्स्या वशीक्रियन्ते तथा मुग्धप्रतारणाय तैरपि जैनबिम्बं दर्शितम् । ननु जिनबिम्बस्य कथं बडिशपिशितोपमा ? उच्यतेअविधिप्ररूपितस्य हीनाचारिप्रतिष्ठितस्य युक्तैव न तु विधिप्रतिष्ठितस्य । पुनः किं कृत्वा ? तन्नाम्नाजिननाम्ना रम्यरूपान्-मनोहरस्वरूपान् अपवरकमठान्, अपवरका:-अन्तर्निलया मठा:-स्थानविशेषास्तान् विधाप्य-काराप्य, कस्यै ? स्वेष्टसिद्ध्यै-स्वस्येष्टसाधनाय, 'अस्माकमिष्टं भविष्यता'-मिति मिषेण भगवद्भाण्डागारमठादिनिर्मापणं कारयन्ति । ते पुनः कैः श्राद्धान् छलन्ति ? यात्रास्नात्राद्युपायैः, यात्रापूर्वजाद्युद्देशेन जिनगृहे यात्रा स्नात्रं च कर्त्तव्यम्, आदिशब्दात् श्रुतानुक्तपर्वग्रहः, एवंप्रकार उपाय:-मिषः, तैः । पुनः नमसितकनिशाजागरादिच्छलैश्च, नमसितकजिनादीन् उद्दिश्य द्रव्ये सितत्वकरणम् उपद्रवनिवृत्तये इयद् द्रव्यं व्ययामीति नियमाकरणं निशाजागरोरात्रिजागरणम् आदिशब्दात् शान्तिकपौष्टिकादिग्रहः, एतच्छलैञ्च-एतत्प्रकारं दर्शयित्वा जनान् वञ्चयन्ति । अनेन काव्येन अविधिजिनबिम्बयात्रास्नात्रनमसितकनिशाजागरणं निषिद्धं, विधिना तु सर्वं कर्तव्यं, तत्कर्त्तव्यस्य सप्तमकाव्ये विंशतितमकाव्ये पूर्वोक्ते स्थापितत्वादिति ॥२१॥
सर्वत्रास्थगितात्रवाः स्वविषयव्यासक्तसर्वेन्द्रियाः, वल्गद्गौरवचण्डदण्डतुरगाः पुष्यत्कषायोरगाः । सर्वाकृत्यकृतोऽपि कष्टमधुनान्त्याश्चर्यराजाश्रिताः,
स्थित्वा सन्मुनिमूर्द्धसूद्धतधियस्तुष्यन्ति पुष्यन्ति च ॥२२॥ व्याख्या-सर्व० ॥ अहो ! कष्टम् एवंविधा हीनाचारिणोऽधुना सन्मुनिमूर्धसु-सत्साधुमस्तकेषु स्थित्वा तुष्यन्ति-तोषं प्राप्नुवन्ति, च-पुनः पुष्यन्ति-वर्द्धन्ते । कथम्भूताः ( हीनाचारिणः) ? सर्वत्र अस्थगितास्रवाः-अनाच्छादितास्रवाः । पुनः किम्भूताः ? स्वविषयेषुआत्मात्मविषयेषु व्यासक्तानिव्यापारितानि सर्वेन्द्रियाणि-स्पर्शनादीनि यैस्तैः । पुनः किम्भूताः ? वल्गन्तः-उच्छलन्तः गौरवैः शातादिभिः चण्डा-रौद्रा दण्डा-मनोदण्डादिकास्तुरगा येषां ते दण्डानां चपलत्वात्तुरगोपमानम् । पुनः कथम्भूताः ? पुष्यत्कषायोरगाः, पुष्यन्तः-प्रवर्धमानाः कषायोरगा:-कषायसर्पा येषां ते । पुनः किम्भूताः ? सर्वाकृत्यकृत्योऽपिसर्वाकार्यकारका अपि । पुनः किम्भूताः ? अन्त्याश्चर्य राजाश्रिताः, अन्त्यमाश्चर्यम्-असंयतपूजालक्षणं तदेव राजा तदाश्रिताः । पुनः किम्भूताः ? उद्धतधियः-उत्कटबुद्धयः ॥२२॥
सर्वारम्भपरिग्रहस्य गृहिणोऽप्येकाशनाद्येकदा, प्रत्याख्याय न रक्षितो हदि भवेत्तीव्रोऽनुतापस्तदा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org