________________
श्री सङ्घट्टकः
व्याख्या - जिन० ॥ मज्जनमेव- स्नात्रमेव जिनमतविमुखविहितं - जिनमतात्-भगवन्मतात् विमुखं विपरीतम् अविधितया विहितं कृतं केवलं निकेवलम् अहिताय न किन्तु तपश्चारित्रदानाद्यपि-तपः - अनशनादि, चारित्रं-देशसर्वविरतिरूपं, दानम् - अभयादिरूपम्, आदिशब्दाद् विनयवैयावृत्त्यादिग्रहणं, तदपि अविधिकृतं खलु निश्चितं शिवफलं - मुक्तिफलं न जनयति, हि-निश्चितं जिनाज्ञाऽपि भगवदाज्ञापि अविधिविधिक्रमात् - अविधिश्च विधिश्च तयोः क्रमात् अशुभशुभाय जायते भवति, अविधिना अशुभाय, विधिना शुभाय किं. पुनरिति विडम्बनैवाहितहेतुर्न प्रतायते इत्यमुना प्रकारेणाऽविधिक्रिया विडम्बना एवाहितहेतुः अहितस्य संसारस्य हेतुः कारणं किं पुनः न प्रतायते न विस्तार्यते अपितु विस्तार्यत एव
"
-
एतावता अविधिक्रिया विडम्बना एव अहितहेतुश्च कथ्यत एव ॥१९॥
जिनगृह - जिनबिम्ब - जिनपूजन - जिनयात्रादि विधिकृतम्, दानतपोव्रतादिगुरुभक्तिश्रुतपठनादि चादृतम् । स्यादिह कुमतकुगुरुकुग्राहकुबोधदेशनांशतः, स्फुटमनभिमतकारि वरभोजनमिव विषलवनिवेशतः ॥२०॥
व्याख्या - जिन० ॥ जिनगृहं - जिनभवनं, जिनबिम्बं भगवत्प्रतिमा, जिनपूजनभगवत्पूजा, जिनयात्रा - अष्टाह्निकादिमहोत्सवः, आदिशब्दाज्जिनप्रतिष्ठादिग्रहः, एवं धर्मकृत्यं विधिकृतं शास्त्रोक्तप्रकारेण विहितं दानम् - अभयदानादि, तपः-द्वादशप्रकारं, व्रतानिस्थूलप्राणातिपातविरमणानि, आदिशब्दात् अभिग्रहादिः, गुरुभक्तिः-धर्माचार्यभक्तिः, श्रुतपठनं - सिद्धान्तपठनम्, आदिशब्दात् सिद्धान्तार्थश्रवणादिग्रहणं, च-पुनः आदृतम्आदरेण कृतम्, एतत्सर्वम् इह-प्रवचने कुमत - कुगुरु-कुग्राह- कुबोधकुदेशनांशतः - कुमतंपरतीर्थिकमतं, कुगुरुः- सिद्धान्तार्थमोटकः, कुग्राहः - कदाग्रहः, कुबोधः - कुत्सितज्ञानं, कुदेशना - कुधर्मकथा तासाम् अंश: - लेशस्तस्मात्, स्फुटं प्रकटम्, अनभिमतकारिअनिष्टकारि संसारकारणं स्यात् । दृष्टान्तमाह - विषलवनिवेशतो वरभोजनमिव यथा विषलवप्रवेशेण वरभोजनं प्रधानं भोजनमपि अनिष्टकारि तथा विधिधर्मकृत्यमपि कुमतिकुगुर्वादिदेशनामिश्रितं संसारकारणमिति ॥२०॥
1
१५२
आक्रष्टुं मुग्धमीनान् बडिशपिशितवद्विम्बमादर्श्य जैनम्, तन्नाम्ना रम्यरूपानपवरकमठान् स्वेष्टसिद्ध्यै विधाप्य । यात्रास्नात्राद्युपायैर्नमसितकनिशाजागरादिच्छलैश्च, श्रद्धालुर्नामजैनैश्छलित इव शठैर्वञ्च्यते हा ! जनोऽयम् ॥२१॥
व्याख्या - आक्रष्टुं० ॥ नाम जैनै:- नाममात्रेण जैना नामजैनास्तै:- लिङ्गधारिभिः 'हा' इति खेदे अयं श्रद्धालुर्जनः-श्रावकजनो वञ्च्यते-परामुस्यते । कथम्भूतैर्नामजैनैः ? शठै: - धूतैः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org