________________
विभाग-२, अवचूरिः
१५१ प्राप्ताः ? । किम् अन्धबधिरा-अन्धाश्च बधिराश्च, श्रवणविकलाः पादविप्रलेपादिर्योगः, अञ्जनादि चूर्णं, योगचूर्णीकृताः-मस्तकादिषु योगचूर्णप्रक्षेपेण वशीकृताः ?, किं देवोपहताः-देवेन-प्रतिकूलदेवेन किमुपहताः ?, किमङ्ग ठकिता:- अङ्गे' ति कोमलामन्त्रणे किं ठकिता:-धूर्तेण च वञ्चिताः ? । किं वा ग्रहावेशिताः ?, ग्रहैः-व्यन्तरादिभिः आवेशिता:अधिष्ठिताः ? । एते तत्त्वं न जानन्तीति दृष्टान्तः । यतः-यस्मात् अमी जडाः कुपथात्-कुमार्गाद् व्यावृत्ति-निवृत्तिं न दधते-न कुर्वन्ति । किं कृत्वा ? श्रुतस्य-सिद्धान्तस्य मूर्जि-मस्तके पदंपादं कृत्वा-सिद्धान्तोक्तमविगणय्येत्यर्थः । कथम्भूता जडाः ? दृष्टोरुदोषा अपि, दृष्टा उरवःगरिष्ठा दोषा यैस्ते, प्रत्यक्षतो दोषान् पश्यमानाः कुमार्गनिवृत्तिं न कुर्वन्ति अत एव दिङ्मोहादिविशेषणम् । च-पुनः एतत्कृते-कुपथव्यावृत्तिकृते पुरुषा ये असूयन्तिईर्ष्या कुर्वन्ति, स्वयं कुपथव्यावृति न कुर्वन्ति, ये कुर्वन्ति तेभ्यो जडा असूयन्तीति विशेषणसफलता ॥१७॥ श्रुतपथावज्ञाद्वारमाह
इष्टावाप्तितुष्टनटविटभटचेटकपेटकाकुलम्, निधुवनविधिनिबद्धदोहदनरनारीनिकरसङ्कुलम् । रागद्वेषमत्सरेणूंघनमघपङ्के निमज्जनम्,
जनयत्येव मूढजनविहितमविधिना जिनमज्जनम् ॥१८॥ व्याख्या-इष्टावाप्ति० ॥ अविधिना-अविधिप्रकारेण रात्रौ इत्यर्थः, मूढजनविहितंमूर्खलोककृतं जिनमज्जनं-तीर्थकरस्नात्रम् अघपङ्के निमज्जनं-पापपङ्के बुडनं जनयत्येवकरोत्येव । एवकारो निश्चयार्थे । किम्भूतं रात्रिस्नानम् ? इष्टावाप्तितुष्टविटनटभटचेटकपेटकाकुलम्-इष्टा-वल्लभा स्त्री रात्रावागता तस्या अवाप्तिः-प्राप्तिस्तया तुष्टा:-सन्तुष्टा ये विटाः-वेश्यापतयः, नटा:-नाटकिनः, भटा:-सुभटाः, चेटका:-दासास्तेषां पेटकंसमुदायस्तेन आकुलम्, रात्रौ प्रायस्ते समागच्छन्ति । पुनः किम्भूतं ? निधुवनविधि निधुवनंमैथुनं तस्य विधिः-विलसितं, तत्र निबद्ध-कृतो दोहद:-अभिलाषो येन तत् । एवंविधं नरनारीनिकरं-मनुष्यस्त्रीवृन्दं तेन सङ्कलं-व्याप्तम् । पुनः किम्भूतं ? रागद्वेषमत्सरेाधनं, राग:स्नेहः, द्वेषः-क्रोधः, मत्सरः-क्रोधविशेषः, परगुणाऽसहिष्णुता-इा-स्ववल्लभां परेण जल्पन्ती दृष्ट्वा क्रोधकरणं, तैर्घनं-निबिडं बहुस्त्यादिविटादिसंमर्दाद् रात्रौ निषिद्धं भगवत्स्नात्रं बह्वसमञ्जसप्रवृत्तित्वाच्च ॥१८॥
जिनमतविमुखविहितमहिताय न मज्जनमेव केवलम्, किन्तु तपश्चारित्र-दानाद्यपि जनयति न खलु शिवफलम् । अविधि-विधिक्रमाज्जिनाज्ञापि ह्यशुभ-शुभाय जायते, किं पुनरिति विडम्बवाहितहेतुर्न प्रतायते ॥१९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org