________________
१५०
श्री सङ्घपट्टकः क्षुत्क्षामः किल कोऽपि रङ्कशिशुकः प्रव्रज्य चैत्ये क्वचित्, कृत्वा कञ्चन पक्षमक्षितकलिः प्राप्तस्तदाचार्यकम् । चित्रं चैत्यगृहे गृहीयति निजे गच्छे कुटुम्बीयति,
स्वं शक्रीयति बालिशीयति बुधान् विश्वं वराकीयति ॥१५॥ व्याख्या-क्षुत्क्षाम० ॥ किलेति संभावनायां कोऽपि क्षुत्क्षाम:-क्षुधया क्षाम:-क्षीणः क्षुत्क्षामः एवम्भूतो रङ्कशिशुकः-रङ्कस्यबालः स वैराग्याभावेऽपि क्वचित् जिनगृहे चैत्ये प्रव्रज्य-दीक्षां गृहीत्वा ततः कञ्चन पुरुषं पक्षं-स्ववशं कृत्वा क्रमेण तद् आचार्यकम्आचार्यत्वं प्राप्तः । कथम्भूतः सः ? अक्षितकलिः-अक्षितः-अनिष्टः कलि:-कलहो यस्य स कलहयुक्तः । एतत् चित्रम्-आश्चर्यं स आचार्यपदवीप्राप्तो निर्गुणोऽपि चैत्यगृहे गृहीयति'ममेदं चैत्य'मिति गृहस्थवदाचरति । निजे गच्छे कुटुम्बीयति-कुटुम्बिपुरुषवदाचरति । स्वम्आत्मानं शक्रीयति-शक्रवत्-इन्द्रवदाचरति । बुधान्-पण्डितान् बालिशीयति-मूर्खायति । विश्वं-जगत्, वराकीयति-वराकवदाचरति चैत्यवासिषु एतत् साक्षाद् दृश्यते ॥१५॥ पुनरपि श्रुतपथावज्ञाद्वारमाह
यैर्जातो न च वर्दिधतो न च न च क्रीतोऽधमर्णो न च, प्राग्दृष्टो न च बान्धवो न च न च प्रेयान्न च प्रीणितः । तैरेवात्यधमाधमैः कृतमुनिव्याजैर्बलाद् वाह्यते,
नस्योतः पशुवज्जनोऽयमनिशं नीराजकं हा ! जगत् ॥१६॥ व्याख्या-यैर्जातो० ॥ यैः-शिथिलाचारिगुरुभिः अयं जनः-श्राद्धलोकः पितृरूपेण तेन न जनित:-जन्म प्रापितः, न च-पुनः वद्धितः-वृद्धि नीतः, न च क्रीतः-मूल्येन गृहीतः, न च येषां गुरूणाम् अधमर्णः-अर्थदाता, न च ग्राहकस्तु उत्तमर्णः, प्राक् प्रथमं दृष्टः-विलोकितः, न च तेषां बान्धवः-भ्राता, न च प्रेयान्-वल्लभः, न च यैर्गुरुभिः प्रीणित:-अर्थादिप्रदानेन सन्तोषितः, न च तैरेव गुरुभिः अनिशं-निरन्तरम् अयं जनः बलात्-हठात् नस्योतः पशुवत्नस्तितवृषभवत् वाह्यते-इतस्ततो भ्राम्यते । कथम्भूतैस्तैः ? अत्यधमाधमैः-अति-अत्यर्थम् अधमेभ्योऽधमाः । पुनः कथम्भूतैः ? कृतमुनिव्याजैः-विहितमुनिकपटैः, अत एव 'हा !' इति खेदे जगत् नीराजकम्-अधिपतिवियुक्तं, यस्याने पूत्क्रियते स राजा नास्तीति ॥१६॥
किं दिङ्मोहमिताः किमन्धबधिराः किं योगचूर्णीकृताः, किं देवोपहताः किमङ्ग ! ठकिताः किं वा ग्रहावेशिताः । कृत्वा मूजिपदं श्रुतस्य यदमी दृष्टोरुदोषा अपि,
व्यावृत्तिं कुपथाज्जडा न दधतेऽसूयन्ति चैतत्कृते ॥१७॥ व्याख्या-किं दिङ्मोहा० ॥ अमी जडा:-मूर्खाः किं दिङ्मोहं-दिशाभ्रमम् इता:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org