________________
विभाग-२, अवचूरिः
१४९
तच्चिन्ताकरणं 'प्रदेयमशनादी 'त्यादि, आरम्भिभि: - गृहस्थैः साधुषु अशनादि - अशनपानखादिमस्वादिमादि यथातथा-येन तेनापि प्रकारेण प्रदेयं तत्राशुद्धदानेऽपि दोषो न अगारिणां गृहस्थानां सुविहितान्तिके - साधुसमीपे व्रतादिविधिवारणं साधुसमीपे शीलव्रतादि नाङ्गीकरणीयं गतानुगतिकैः - एडकावत्प्रवाहपतितैः चैत्यवासिभिः अदः - :- पूर्वोक्तम् असंस्तुतम्अयुक्तं कथं - केन प्रकारेण प्रस्तुतंप्रारब्धम् ॥१२॥
श्रुतपथावज्ञाद्वारमाह
निर्वाहार्थिनमुज्झितं गुणलवैरज्ञातशीलान्वयम्, तादृग्वंशजतद्गुणेन गुरुणा स्वार्थाय मुण्डीकृतम् । यद्विख्यातगुणान्वया अपि जना लग्नोग्रगच्छग्रहा, देवेभ्योऽधिकमर्चयन्ति महतो मोहस्य तज्जृम्भितम् ॥१३॥
व्याख्या - निर्वाहा० ॥ यत्-यस्मात्कारणात् एवंविधा जना एवंविधं गुरुं देवेभ्योऽधिकमर्चयन्ति तत् महतः - प्रबलस्य मोहस्य- मोहनीयकर्मणो जृम्भितं महात्म्यम् । कथम्भूतं गुरुं ? निर्वाहार्थनंनिर्वाहस्य - उदरभरणस्यार्थिनम् । पुनः किम्भूतम् ? गुणलवै:गुणलेशैः उज्झितं त्यक्तम् । पुनः किम्भूतम् ? अज्ञातशीलान्वयम् - अज्ञातं शीलम् - आचारः अन्वयश्च-कुलं यस्य स तम् । पुनः किम्भूतम् ? तादृग्वंशजतद्गुणेन गुरुणा शिष्यतुल्याज्ञातादिवंशेन तद्गुणेन - शिष्यतुल्यगुणेन एवंविधेन गुरुणां स्वार्थाय - स्वोदरभरणाय मुण्डीकृतं तादृशतादृशमेवं मुण्डयते । कथम्भूता जनाः विख्यातगुणान्वया अपि विख्याताःप्रसिद्धाः गुणान्वयो वंशो येषां ते सुगुणाः सुकुलोत्पन्ना अपि । पुनः किम्भूताः ? लग्नोग्रगच्छग्रहाः, लग्न उग्रः- उत्कटो गच्छग्रहो येषां ते ॥१३॥
.. पुनरप्येतद्द्वारमाह
Jain Education International
दुष्प्रापा गुरुकर्मसञ्चयवतां सद्धर्मबुद्धिर्नृणाम्, जातायामपि दुर्लभ: शुभगुरुः प्राप्तः स पुण्येन चेत् । कर्त्तुं न स्वहितं तथाऽप्यलममी गच्छस्थितिव्याहताः, कं ब्रूमः कमिहाश्रयेमहि कमाराध्येम किं कुर्महे ॥१४॥
व्याख्या—दुष्प्रापा० ॥ गुरुकर्मसञ्चयवत्तां गुरुकर्मसमूहवतां नृणां सद्धर्मबुद्धिःप्रधानधर्मबुद्धिः दुष्प्रापा गुरुकर्मत्वात् सद्धर्मबुद्धिर्न कदाचित् सद्धर्मबुद्धौ जातायामपि पुनरपि शुभगुरुः दुर्लभः — दुष्प्रापः चेद्यदि स गुरुः पुण्येन प्राप्तः, तथापि - एवं सामग्रीयोगेऽपि अमी श्राद्धाः स्वहितं कर्तुं नालं न समर्थाः । कथम्भूता जनाः ? गच्छस्थितिव्याहताःगच्छस्थित्या-गच्छमर्यादया व्याहताः- वशीकृताः । एवं स्थिते कं पुरुषं ब्रूमः, कं पुरुषम् इहजगति आश्रयेमहि शरणं प्रपद्येमहि, कं पुरुषम् आराध्येमहि - आराध्येम किं कुर्महे ॥ १४ ॥
For Personal & Private Use Only
www.jainelibrary.org