________________
१४८
श्री सङ्घपट्टकः अभिहिता-प्रोक्ता या यतना-परिच्छदादानरूपा तत्कारिणाम् । एवमुत्सर्गेण अपवादेनापि गृहस्थगृह एव वसनीयं न पुनः क्वापि चैत्ये निवासोऽनुमतः ॥९॥
प्रव्रज्याप्रतिपन्थिनं ननु धनस्वीकारमाहुर्जिनाः, सर्वारम्भिपरिग्रहं त्वतिमहासावद्यमाचख्यते । चैत्यस्वीकरणे तु गर्हिततमं स्यान्माठपत्यं यते,
रित्येवं व्रतवैरिणीति ममता युक्ता न मुक्त्यर्थिनाम् ॥१०॥ व्याख्या-प्रव० ॥ ननु-निश्चितं जिनाः-तीर्थकराः धनस्वीकारम्-अर्थाङ्गीकारं प्रव्रज्याप्रतिपन्थिनं-दीक्षाविरोधिनम् आहुः-कथयन्ति तु-पुनः सर्वारम्भिपरिग्रह, सर्वारम्भिणांगृहस्थानां परिग्रह-स्वीकारं ममैते गृहस्था इति, अतिमहासावद्यम्-अत्यन्तं महापापम् आचक्षते वदन्ति । तु-पुनः यते:-साधोः चैत्यस्वीकरणे-चैत्यममत्वे गर्हिततमम्-अत्यन्तगर्हणीयं माठपत्यं-मठपतित्वं स्यात् । इत्येवंप्रकारेण मुक्त्यर्थिनां-मुक्तेः प्रार्थकानां साधूनां ममता न युक्ता, कथम्भूता ममता ? व्रतवैरिणी, इति-अर्थ-गृहस्थचैत्यस्वीकारः । इति द्वारत्रयं व्याख्यातम् ॥१०॥
भवति नियतमत्रासंयमः स्याद्विभूषा, नृपतिककुदमेतल्लोकहासश्च भिक्षोः । स्फुटतर इह सङ्गः सातशीलत्वमुच्चै-रिति न खलु मुमुक्षोः सङ्गतं गब्दिकाऽदि ॥११॥
व्याख्या-भवति० ॥ अत्र-गब्दिकाद्यासने नियतं-निश्चितम् असंयमो भवति गब्दिकादीनां प्रतिलेखयितुमशक्यत्वात् । विभूषा-शोभा स्यात् महापुरुषसेवनीयत्वात् । एतद्आसनसेवनं नृपतिककुदं-राजचिह्नं च-पुनः भिक्षोः-साधोः लोकहासः स्यात्-'अहो ! मुण्डितोऽप्येवंविधासनेषु उपविशति' इह गब्दिआसने सङ्गः-परिग्रहः स्फुटतर:-प्रकटतरः उच्चैः-अत्यर्थं सातशीलत्वंसुखलम्पटत्वम् । इति हेतोः खलु-निश्चितं मुमुक्षोः-साधोः गब्दिकादि, आदिशब्दात् मसूरकसिंहासनादेः परिग्रहः, तत् न सङ्गतं-न युक्तम् । अप्रेक्षिताद्यासनद्वारं व्याख्यातम् ॥११॥ सावद्याचरितद्वारमाह
गृही नियतगच्छभाग जिनगृहेऽधिकारो यतेः, प्रदेयमशनादि साधुषु यथा तथा-ऽरम्भिभिः । व्रतादिविधिवारणं सुविहितान्तिकेऽगारिणां,
गतानुगतिकैरदः कथमसंस्तुतं प्रस्तुतम् ॥१२॥ व्याख्या-गृही० ॥ गृही-श्रावकः नियतगच्छभाक्, नियतं-निश्चितं स्वगच्छमेव भजतीति नियतगच्छभाक्, स्वगच्छं मुक्त्वाऽन्यत्र न गन्तव्यम्, यतेः-साधोः जिनगृहे-चैत्येऽधिकार:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org