________________
विभाग-२, अवचूरिः
१४७ मृगमदः-कस्तूरिका यत्र, लसन्तः दीप्यमानाः उल्लोचा:-चन्द्रोदया यत्र, चञ्चञ्जनौधः-चञ्चन्त:महाधनवस्त्रादिभूषणभूषिता जनौघा:-श्रावकसा यत्र स सर्वपदैक्यसमासः । चैत्ये एतत्सर्वं भवति । किम्भूताः सन्तः ? देव० देवद्रव्यस्योपभोगं ध्रुवं-निश्चितं या मठपतिता आशातना च ताम्बूलभक्षणशयनासनादिरूपा, ताभ्यः वसन्तः । कथम्भूते चैत्ये ? सद्भक्तियोग्ये, एतावता चैत्यभक्तिः कार्या, तत्र वासो न कार्यः ॥७॥ तृतीयद्वारमाह
साक्षाज्जिनैर्गणधरैश्च निषेवितोक्तां, निस्सङ्गताऽग्रिमपदं मुनिपुङ्गवानाम् ।
शय्यातरोक्तिमनगारपदं च जानन्, विद्वेष्टि कः परगृहे वसति सकर्णः ॥८॥ व्याख्या-साक्षा० ॥ कः सकर्णः-विद्वान् परगृहे-श्रावकोपाश्रये वसति-स्थानं विद्वेष्टितत्र द्वेष धत्ते अपितु न कोऽपि । कथम्भूतां वसति ? साक्षाज्जिनैः-तीर्थकरैः, गणधरैश्चगौतमादिभिः निषेवितोक्तां-निषेविता-सेविता उक्ता च भव्येभ्यः । पुनः किम्भूतां वसतिं ? मुनिपुङ्गवानांमुनिप्रवराणां निस्सङ्गताग्रिमपदं-निस्सङ्गताया अग्रिमं-प्रधानं पदं-स्थानं परगृहे वसतां साधूनां सङ्गोऽपि न स्यात् । सकर्णः किं कुर्वन् । शय्यातरोक्ति शय्यया-वसत्या तरति संसारसागरमिति शय्यातरस्तस्य उक्तिः -कथनं, च पुनः-अनगारपदं, न विद्यते अगारं-गृहं यस्य सः अनगारस्तस्यं पदं जानन्, एतावता अनगारस्य श्राद्धगृहे वसनमेव श्रेयः ॥८॥ पुनरपि तद्धारमेवाह
. चित्रोत्सर्गापवादे यदिह शिवपुरीदूतभूते निशीथे, प्रागुक्ता भूरिभेदा गृहिगृहवसती: कारणेऽपोद्य पश्चात् । स्त्रीसंसक्त्यादियुक्तेऽप्यभिहितयतनाकारिणां संयतानाम्,
सर्वत्रागारधाम्नि न्ययमि न तु मतः क्वापि चैत्ये निवासः ॥९॥ व्याख्या-चित्रो० ॥ यत्-यस्मात्, इह-प्रवचने निशीथे-निशीथग्रन्थे निशीथनाम्नि छेदग्रन्थे सर्वत्र अगारधाम्नि-श्राद्धगृहे संयतानां-साधूनां निवासो न्ययमि-नियमेन प्रतिपादितः । कथम्भूते निशीथे ? चित्रोत्सर्गापवादे-चित्रौ-नानाप्रकारौ उत्सर्गापवादौ नयौ यत्र तत्, तत्र नयद्वयस्य विस्तरव्याख्याऽस्तीति । पुनः किम्भूते ? शिवपुरीदूतभूते-शिवपुर्या:मोक्षनगर्या दूतभूते तत्र ग्रन्थे प्राक्-प्रथमं भूरिभेदाः-अनेकप्रकाराः गृहिगृहवसती:-गृहिणां गृहमेव वसतयः-उपाश्रयास्ता उक्त्वा पश्चात्कारणे सति अपोद्य-अपवादविषयीकृत्य पूर्वमुत्सर्गेण 'स्त्रीसंसक्त्यादियुक्ते उपाश्रये न वस्तव्यं साधुना' इत्युक्तं पश्चादपवादमार्गेण तत्र वसनीयमित्यपि प्रोक्तम् । कथम्भूते अगारधाम्नि ? स्त्रीसंसक्त्यादियुक्तेऽपि-स्त्रीपशुपण्डकानां संसर्गादियुक्तेऽपि वसनीयम् । कथम्भूतानां संयतानाम् ? अभिहितयतनाकारिणाम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org