________________
१४६
श्री सङ्घपट्टकः सावद्याचरितादरः श्रुतपथाऽवज्ञा गुणिद्वेषधीः,
धर्मः कर्महरोऽत्र चेत्पथि भवेन्मेरुस्तदाऽब्यौ तरेत् ॥५॥ व्याख्या-यत्री० ॥ यत्र मार्गे औद्देशिकस्य-आधाकर्मणो भोजनम् ॥१॥ जिनगृहे वास:वसनम् ॥२॥ वसत्यक्षमा-वसतिम्-उपाश्रयं प्रति अक्षमा-मात्सर्यम् ॥३॥ अर्थः ॥४॥ गृहस्थः ॥५॥ चैत्यसदनेषु-चैत्यगृहेषु स्वीकारः ॥६॥ अप्रेक्षितादि-अप्रमार्जितादि आसनम् ॥७॥ सावद्याचरणायामादरः ॥८॥ श्रुतपथस्य-सिद्धान्तमार्गस्य अवज्ञा-हीला ॥९॥ गुणिषु द्वेषधी: ॥१०॥ अत्र पथि दशद्वारसंयुक्ते चेद्-यदि धर्मः कर्महरः स्यात्तदा मेरुपर्वतो 'अब्धौ तरेत्' इति निषेधवाक्यं, कदापि न भवति ॥५॥ औद्देशिकभोजनद्वारं व्याख्यानयति
षट्कायानुपम निर्दयमृषीनाधाय यत्साधितम्, शास्त्रेषु प्रतिषिध्यते यदसकृन्निस्त्रिंशताऽऽधायि यत् । गोमांसाधुपमं यदाहुरथ यद् भुक्त्वा यतिर्यात्यधः, .
तत्को नाम जिघत्सतीह सघृणः सङ्घादिभक्तं विदन् ॥६॥ व्याख्या-षट् ॥ षट्कायान्-पृथिव्यादीन् निर्दयम् उपमद्य-आरभ्य यद् आधाकर्म ऋषीन-साधून आधाय-मनस्यवधार्य साधितं-निष्पादितं यत् शास्त्रेषु असकृत्-वारंवारं प्रतिषिध्यते, यत्पुनर्निस्त्रिंशताधायि-निस्त्रिंशताया:-निःशूकत्वस्य आधायि-कारकं यद् गोमांसाधुपमंगोमांसादितुल्यमाहुस्तीर्थकराः, अथ यद्-अशनं भुक्त्वा यतिः अधः-नरके याति । एवं दूषणस्थानमाधाकर्म तत् सङ्घादिनिमित्तमशनं तदिति कोमलामन्त्रणे इह-जगति कः सघृणः-सदयो जिघत्सति-भोक्तुमिच्छति ? किं कुर्वन् ? विदन्-जानन्, एतावता ज्ञात्वा न कोऽपि भोक्तुमिच्छतीति ॥६॥ द्वितीयद्वारमाह
गायद्गन्धर्वनृत्यत्पणरमणिरणद्वेणुगुञ्जन्मृदङ्ग,प्रेङ्खत्पुष्पस्त्रगुद्यन्मृगमदलसदुल्लोचचञ्चज्जनौघे । देवद्रव्योपभोगध्रुवमठपतिताऽऽशातनाभ्यस्त्रसन्तः,
सन्तः सद्भक्तियोग्ये न खलु जिनगृहेऽर्हन्मतज्ञा वसन्ति ॥७॥ व्याख्या-गाय० ॥ जिनगृहे अर्हच्चैत्ये अर्हन्मतज्ञा-अर्हन्मतज्ञातारः सन्तः खलु-निश्चितं न वसन्ति । कथम्भूते चैत्ये ? गायद्गन्धर्वाः गायन्तो गन्धर्वा यत्र, नृत्यन्ती पणरमणी-वेश्या यत्र, रणद्वेणुः-रणन्त-शब्दं कुर्वन्तो वेणवो-वंशा यत्र, गुञ्जन्तो मृदङ्गाः-मृदला यत्र तद् गुञ्जन्मृदङ्ग, प्रेवत्पुष्पलक्-प्रेङ्खन्त्यो-लहलहायमानाः पुष्पस्त्रजः-पुष्पमाला यत्र, उद्यत्-समुच्छलद्गन्धो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org