________________
१४५
विभाग-२, अवचूरिः
दाक्षिण्यीति दमीति नीतिभृदिति स्थै-ति धैर्सति सद्,
धर्मार्थीति विवेकवानिति सुधीरित्युच्यसे त्वं मया ॥२॥ व्याख्या-कल्याण ॥ कल्याणः-शुभः, अभिनिवेश:-मनःपरिणामो यस्येति कल्याणाभिनिवेशवान् इति । गुणग्राहीति । मिथ्यापथस्य-कुमार्गस्य प्रत्यर्थी-वैरी, इति । विनीत इति । अशठः-सरल( इति) औचित्यकारीति-योग्यताकारीति । च-पुनः दाक्षिण्यीति । दमी-जितेन्द्रिय इति । नीतिभृत्-न्यायमार्गधारक इति । स्थै--स्थिरत्ववान् इति । धैर्दीधीरत्ववानिति । सद्धर्मस्यार्थीति । विवेकवानिति । सुधी:-सुबुद्धिरिति । हे शिष्य ! एवंगुणविशिष्टस्त्वम्, अत एव मयोच्यसे त्वमिति, त्वां प्रत्यहं वच्मीति काव्यार्थः ॥२॥
इह किल कलिकालव्यालवक्त्रान्तरालस्थितिजुषि गततत्त्वप्रीतिनीतिप्रचारे। प्रसरदनवबोधप्रस्फुरत्कापथौघस्थगितसुगतिमार्गे सम्प्रति प्राणिवर्गे ॥३॥
प्रोत्सर्पद्भस्मराशिग्रहसखदशमाश्चर्यसाम्राज्यपुष्य,मिथ्यात्वध्वान्तरुद्धे जगति विरलतां याति जैनेन्द्रमार्गे । सङ्क्लिष्टद्विष्टमूढप्रखलजडजनाम्नायरक्तैर्जिनोक्ति,
प्रत्यर्थी साधुवेषैर्विषयिभिरभितः सोऽयमप्राथि पन्थाः ॥४॥ व्याख्या-इह० ॥ प्रो० ॥ विषयिभिः-विषयसेवकैः साधुवेषैः-लिङ्गधारिभिहीनाचारैः चैत्यवासिभिः अभितः-समन्तात् सोऽयं पन्था-मार्गः अप्राथि-विस्तारितः । क्व सति ? सम्प्रति इह-दुष्षमाकाले किलेति सत्ये प्राणिवर्गे एवंविधे सति । कथम्भूते प्राणिवर्गे ? कलिकाल एवदुष्षमाकाल एव व्यालः-सर्पस्तस्य वक्त्रान्तरालं-मुखान्तरालं तत्र स्थिति:-स्थानं तां जुषते-सेवते यः सः । पुनः कथम्भूते ? गततत्त्वप्रीतिनीतिप्रचारे-गतौ तत्त्वप्रीतिः नीतिप्रचारश्च न्यायप्रचारस्तौ यस्य सः । पुनः कथम्भूते ? प्रसरत्-प्रसरणशीलो योऽनवबोधःअज्ञानं तेन प्रस्फुरत्कापथौघः-कुमार्गसमूहस्तेन स्थगितः-आच्छादितः सुगतिमार्ग:देवगत्यादिसम्बन्धो यस्य सः ॥३॥ पुनः क्व सति ? जगति जैनेन्द्रमार्गे विरलतां याति सति । कथम्भूते जैनेन्द्रमार्गे ? "प्रोत्सर्प" प्रोत्सर्पन्-उल्लसन् यः भस्मराशिग्रहस्तस्य सखा-मित्रं यद्दशमाश्चर्यम्-असंयतिपूजालक्षणं तस्य साम्राज्यं तेन पुष्यन्-प्रवर्द्धमानो मिथ्यात्वमेव ध्वान्तं-तमस्तेन रुद्धे । कथम्भूतैः साधुवेषैः ?, सङ्क्लिष्टोरौद्राध्यवसायवान् विष्टो-मत्सरी मूढः-मूर्खः प्रखलः-दुर्जनः जड:-दुर्मेधा एवम्भूतो यो जनस्तस्य सङ्गस्तस्य आम्नायः-परम्परा तत्र रक्तैः । कथम्भूतः पन्थाः ? जिनोक्तेः-भगवद्वचनस्य प्रत्यर्थीति काव्यार्थः ॥४॥ अथ द्वारमाह
यत्रौदेशिकभोजनं जिनगृहे वासो वसत्यक्षमा, स्वीकारोऽर्थगृहस्थचैत्यसदनेष्वप्रेक्षिताद्यासनम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org