________________
विभाग-२ : अवचूरिः पू.आ.श्रीजिनभद्रसूरिशाखान्तर्गतसाधुकीर्तिगणिनिर्मितावचूरीसमलङ्कृतः
श्रीसङ्घपट्टकः श्रीमत्पार्श्वजिनं नत्वा, सर्वसम्पत्तिदायकम् ।
सङ्घपट्टकशास्त्रस्या-ऽक्षरार्थं वितनोम्यहम् ॥१॥ इह हि पुरा दशशताशीतिवर्षे श्रीमदणहिल्लपत्तने दुर्लभराजसभायां चैत्यवासिनो विनिर्जित्य प्राप्तखरतरबिरुदः श्रीजिनेश्वरसूरिः, तत्पट्टे जिनचन्द्रसूरिः, तद्विनेयः श्रीस्तम्भनकपार्श्वप्राकट्यकृद् नवाङ्गीवृत्तिविधाता च श्रीअभयदेवसूरिः, तच्छिष्यः श्रीजिनवल्लभसूरिः शिथिलाचारनिरासाय परोपकारकरणाय च श्रीसङ्घस्य पट्टकरूपं श्रीसंघराज्यपट्टकशास्त्रं चकार, तस्याद्य काव्यम्
वह्निज्वालावलीढं कुपथमथनधीर्मातुरस्तोकलोक,स्याग्रे संदर्य नागं कमठमुनितपः स्पष्टयन् दुष्टमुच्चैः। यः कारुण्यामृताब्धिविधुरमपि किल स्वस्य सद्यःप्रपद्य,
प्राज्ञैः कार्यं कुमार्गस्खलनमिति जगादेव देवं स्तुमस्तम् ॥१॥ व्याख्या-"वह्निः" तं देवं स्तुमः । तमिति के ? यो भगवान् मातरने अस्तोकलोकस्यसमस्तलोकस्य अग्रे नागं-सर्प संदर्य-दर्शयित्वा प्राज्ञैः-पण्डितैः 'कुमार्गस्खलनं कार्यम्' इति जगादेव-इति कथयामासेव । कथम्भूतं नागं ? वह्निज्वालावलीढम्-अग्निज्वालाव्याप्तम् । कथम्भूतो भगवान् ? कुपथस्य-कुमार्गस्य मथने धी:-बुद्धिर्यस्य । पुनर्भगवान् किं कुर्वन् ? उच्चैः-अत्यर्थं कमठमुनितपः दुष्टं स्पष्टयन्-प्रकटीकुर्वन् । कथम्भूतो भगवान् ? कारुण्यमृताब्धिः-कारुण्यस्यामृतस्य अब्धिः-समुद्रः । किं कृत्वा कुमार्गस्खलनं कार्यं ? तत्राह'किल' इति सत्ये स्वस्य-आत्मनः सद्यः-शीघ्रं विधुरमपि-कष्टमपि प्रपद्य-अङ्गीकृत्य । इति प्रथमकाव्यार्थः ॥१॥
कल्याणाभिनिवेशवानिति गुणग्राहीति मिथ्यापथ,प्रत्यर्थीति विनीत इत्यशठ इत्यौचित्यकारीति च ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org